SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ श्रीगौतमस्य वदनं मधुरिमसदनं सितांशुसमरदनम् । मम मनसि निवसतु सदा समतापथपथिकपथ्यदनम् स्त्यानीकृतफेननिभं यदि वा नवनीतधवलपिण्डनिभम् । शुभ्रादभ्राभ्राभं विभाति गौतमविभो ! भवबिम्बम् श्रीगौतम ! तव मधुरिमरसभरभरिते मनोरमे बिम्बे ! आसक्ता मम दृष्टिस्तथाऽनुरक्ता मतिनितराम् चेल्लब्धयः समग्राः स्युर्भगवति गौतमे, मम ततः किम् ? । मयि तु सदा विस्फुरतु श्रीगौतमनामलब्धिरेकैव । "भजतः श्रीवीरजिनं भवति ज्ञानस्य लाभ" इति रूढिः । भवता तं त्यजतैव नु तल्लब्धं गौतमेश ! चित्रमिदम् त्वं तीर्थं मेरुस्त्वं त्वं दानं त्वं सुपात्रमपि भगवन् ! । वेदस्त्वं त्वं च गुरुस्त्वमेव मे तत्त्वमसि परं गणराट् मन्त्राधिराजयोगाद् गौतमगुरुयोगभागहं जातः । एवं चाऽऽप्तो योगावञ्चकतां मन्दभाग्योऽपि हेतुस्तत्र गुरूणां करुणैवेतीह निश्चितं मयका। अत एवाऽऽराधकतां समाप्नुयामिति मनीषा मे श्रीगौतमगणभृत्स्तुतिरेषा रचिताऽत्र गोधराक्षेत्रे । मन्त्राधिराजपञ्चमपीठस्याऽऽराधनावसरे अग्नि-समिति-गगनेक्षणवर्षे (२०५३) दीपालिकादिने कृतवान् । शीलेन्दुः स्तुतिमेतां गौतमगुणगुम्फितामिति शम् ॥१६॥ ॥१७॥ ॥१८॥ ॥१९॥ ॥२०॥ १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy