SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमस्तोत्रम् विजयशीलचन्द्रसूरिः ॥१॥ ॥२॥ ॥३॥ |४|| आर्हन्त्यप्रतिरूपं रूपातीतं तथापि चिद्रूपम् । मन्त्राधिराजरूपं गौतमरूपं गुरुं वन्दे श्रेष्ठतमः सद्गुरुषु पूज्यतमः पूजनीयतत्त्वेषु । ज्ञानरमो विगततमास्तमोऽपहो गौतमो जयतात् श्रीवीरचरणलक्ष्मीः सेव्यत्वेनाऽधिकीकृता येन । केवललक्ष्मीतः खलु प्रणौमि तं गौतमं गणिनम् शुद्धज्ञाननिदानं सम्यग् जिनभक्ति योग एवेह । साधितमिति निजचरितैर्येनाऽमुं गौतमं प्रणिपतामि आसक्तिरेव न स्यात् कार्यं रागस्य, किन्तु भक्तिरपि। स्थापितमिति येनाऽसौ श्रीगौतमगणधरो जीयात् अवलम्ब्य यं रविकिरणमारूढोऽष्टापदं गिरिं तुङ्गम् । श्रीगौतमो गणेन्द्रोऽधुनाऽपि तं किरणमभिवन्दे त्वत्प्रतिमां त्वप्रतिमामिमां निरीक्ष्याऽद्य गौतमेश ! मम ! नेत्रे विकृतिविचित्रे पवित्रतायै मतिः कुरुताम् श्रीगौतम ! तव मुद्रा गततन्द्रा प्रास्तवासनानिद्रा । संजनितभव्यभद्रा वितरतु संघाय कुशलं द्राक् हृदये यत् कारुण्यं श्रीगौतमगणभृतो लसति पुण्यम् । बिम्बस्थनयनकच्चोलकयोस्तत् प्रकटितं मन्ये क्षेप्तुं सहजमलमलं गौतमपदकमलयमलममलमिदम् । ___ विमलमना नित्यमतः स्मरामि तत् पूजयामि चाऽहमिह ॥६॥ |७|| ॥८॥ ॥९॥ |१०|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy