SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ त्वच्चरितकीर्तनं मे चिरकालाद् वाञ्छितं गुरुप्रवर ! | अद्याऽकस्मादाप्तं बन्दित्वं तव गुणेषु, धन्योऽहम् प्रहर्षणम् - २ गुरुवर! भवाब्धितरणं जिनशासननौकया त्वयेष्टं प्राक् । चित्रं नौकाधिपति - स्त्वमेव सङ्खेन विहितः स्राक् ! प्रहर्षणम् - ३ “रक्षार्थं कादम्बा-ऽचलस्य राजन्यकानुपदिशामि " । इति तत्र त्वं यात- स्तीर्थं तैस्तूपदीकृतं तुभ्यम् विषादनम् "अधुनैव युक्तिवचनैः सूरिं तं निरुत्तरीकरिष्यामः इति सामर्षागतपर-तीर्थिमुखं ननु बबन्ध मुद्रा ते उल्लासः नेमेर्हृदयप्रपायां विलसद् विमलं कृपाजलं सम्यक् । प्रक्षालयतु मम मलं, गालयतु ज्ञानतृषमथ च उल्लासः - ?? Jain Education International गुरुवर ! भवतोऽलङ्घ्यं शासनमुल्लङ्घयन्ति हतदैवाः । तत्कटुकफलानुभवना-वसरे कुप्यन्ति ननु विधये उल्लासः ३ “स्वीयोऽयं परकीयो-ऽयं " चेति द्वैतमुक्तचैतन्ये । त्वय्यपि च पक्षपातं, कल्पन्ते येऽज्ञता हि सा तेषाम् उल्लासः - ४ इष्टापत्तिरियं खलु खला न खेलन्ति यत्तव गुणेषु । भेदः सत्खलयोर्ननु कर्तुं लोको भवेदतः शक्तः - 1 २९ For Private & Personal Use Only ॥१२२॥ ॥१२३॥ ॥ १२४॥ ॥१२५॥ ॥१२६॥ ॥१२७॥ ॥१२८॥ ॥१२९॥ www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy