SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भूतं इति मत्वा तस्य चित्ते क्रोधाग्निः प्रदीप्तः । कृतोत्कृष्टसाधनः स संन्यासी उवाच"अशुभं ते भवतु " इति । किं ननु संभवेत् द्वादशवर्षपर्यन्तं कृतायाः साधनायाः फलमेतत् ? न हि कदाऽपि । तथाऽपि केन कारणेन एवं भूतम् ? एकमेव कारणमत्र यन्न खलु सदा बाह्यतपसः आराधनया, उत्कृष्टविहारयात्रया, दिनपर्यन्तं पठन-पाठनमात्रेण, निरन्तरं बाह्यक्रियाचरणेन च चित्तशुद्धिर्भवति, किन्तु तत्तत्कार्यकरणकाले यावती मनसः परिणतिः निर्मला भवेत् यावान् च तत्क्रियां प्रति आदरो बहुमानोऽहोभावश्च जागृयात्, तावत्येव चित्तविशुद्धिः भवेत् । एतादृशी चित्तशुद्धिरेव मोक्षमार्गस्य कारणमस्ति । __ "समस्तक्रियायाः योगेऽपि तथा चारित्रादिरूपबाह्यानुष्ठानेषु सत्स्वपि शुभपरिणामाभावे न मोक्षो भवति । अर्थात् विशुद्धाध्यवसायः एव तत्र (मोक्षे) कारणमस्ति।" इति श्रीधर्मबिन्दुग्रन्थेऽपि कथितमस्ति। __ अधुनाऽऽवश्यकक्रियायाः कालः प्राप्तो भवति, ततः 'कर्मणा शुद्धिः' इति सूत्रात् विधेयात्मकस्य कर्मणः फलं दर्शितम् । अथाऽऽगामिनि पत्रे एतत्सूत्रानुसारेणैव निषेधात्मकेन कर्मणा किं भवेत्, तस्य फलं किं ? तथाऽन्यदपि किञ्चिद् लेखिष्यामि, इति शम्। नीतिज्ञा नियतिज्ञा ब्रह्मज्ञा अपि भवन्ति शास्त्रज्ञाः । वेदज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥ (अप्पय्यदीक्षितः) ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy