________________
STAGE
-
अनुवादव
अमरत्वाभीप्सा
33.
66
3030826038888
-मुनिजिनसेनविजयः ऋषभाञ्चलशिखरमारूढोऽहमेव समस्तभूमण्डलस्य प्रथमश्चक्रवर्ती इति मन्यते स्म चक्रवर्ती सम्राड् भरतः। स च गिरिशिखरे स्वस्य नामाङ्कनं कर्तुमैच्छत् । तस्य चित्ते मिथ्याभिमान आसीत् यत् “तत्र मम नामैव प्रथमं भविष्यति।" अतस्तत्र गत्वा तेन स पर्वतः आशिखरं सर्वतः सूक्ष्मदृष्ट्या विलोकितः, किन्तु तत्रत्यां स्थितिं दृष्ट्वा स स्तब्यो बभूव । पूर्वमेव तत्र पर्वतशिखरे बहूनि नामानि लिखितानि आसन् । तानि सर्वाण्यपि नामानि चक्रवर्तिनां नामान्येवासन् । तत्र एकमपि स्थानं नावशिष्टम् यत्र स स्वनाम लेखितुं शक्तो भवेत्, तेन भरतः खिन्नोऽभूत् । तदा तेन ज्ञातं यद् 'मे अभिमानो मिथ्याऽस्ति' इति । तत्पश्चात् विवशतया भरतेन अन्यस्य चक्रवर्तिनो नाम उत्कीर्णं, तदनु तत्र आत्मनो नाम लिलिखे। अथ यदा स नगर्यामागतस्तदा राजपुरोहितेन उक्तं "हे राजन् ! अपरस्य नाम उत्कीर्य स्वनाम्नः स्थापनस्य परम्परायाः भवानेवाद्यप्रवर्तकोऽभवत् ।" "को जानाति यद् भवन्नामापि केन कदा उत्कीर्येत? " इति । तदा अमरत्वं प्रति विचाराणां वैयर्थ्यमेव स्पष्टतया भरतेन ज्ञातम् ।
(अनूदितम्)
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org