SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चित्रेण सहाऽद्य कृतं चित्रं परीक्षस्व । प्रत्येकं चित्रं क्रमशो भूमौ स्थापयित्वा तेषु मध्ये कियत्तारतम्यं वर्तत इति च निरीक्षस्व।" ___ पुत्रस्ततो निर्गत्य स्वस्थानं गतवान् । पश्चात् शान्तं भूत्वा पितृवचनानुसारेण तेन चित्राणि स्थापितानि । यदा तेन क्रमेण सर्वाणि चित्राणि दृष्टानि, दृष्ट्वा च यदाऽन्तिमं चित्रं दृष्टं तदा तद्गतं महत्तारतम्यं समीक्ष्य तस्य नेत्रे स्फारितेऽभूताम्। 'मयाऽपराध आचरितः पितृपादाना'मिति विचिन्त्य साश्रुलोचनः पितृसमीपं गत्वा पादयोः पतित्वा क्षमामयाचत । पिताऽपि तस्य मस्तके वात्सल्यपूर्ण हस्तं प्रसार्य एकमेव वाक्यमुवाच - "यस्मै गुरुजनाः क्षति न दर्शयति, दर्शिते सति च यो न सहते तस्मै तु जगत् समग्रमपि क्षतिं दर्शयति यच्चाधिकमसह्यं भवति ।। "वृक्षान् रक्षन्तु, वर्षामानयन्तु ॥" GOVT. OF INDIA JABIR ८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy