SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ विवक्ष्यते । तथा हि-रक्तशब्दस्य श्लेषेण लोहितानुरक्तसाम्यात्, तथा च मुखशब्दस्य प्रारम्भभागेऽर्थात् प्राचीदिशि वदने च साम्यात्, चुम्बतीत्यस्य संस्पर्शवदनसंयोगसाम्यात् चन्द्रमाःशब्दगतपुंलिङ्गेन ऐन्द्रीशब्दगतस्त्रीलिङ्गेन तत्प्रतिपाद्य, इन्द्रसंबन्धेन परवनितासक्तकामुकवृत्तान्तस्य च प्रतीतिः परिस्फूर्तिमात्रं विवक्ष्यते । अत्र तु भावापत्त्यलङ्कारे न केवलं प्रतीतो, परिस्फूर्ती अलङ्कारः पर्यवस्यति किन्तु मानुषभावाः सुस्पष्टमारोप्य मानुषसहजव्यवहारा: - बुद्धिसामर्थ्ययुक्तायुक्तविवेचनादिपटुकरणमात्रसाध्याः- अनुष्ठीयन्ते इत्यस्ति विशेषः।। किञ्च समासोक्तौ तदलङ्कारसिध्दये श्लेषोपकारकत्वमपेक्ष्यते अत्र तु भावापत्त्यलङ्कारे तदलङ्कारसिद्धयै श्लेषोपकारकत्वस्य अपेक्षा नास्तीत्यप्यस्ति विशेषः ।। ____ एवमेव भावापत्त्यलङ्कारस्य ‘वदनारविन्द' मित्याधुदाहरणवति रूपकालङ्कारेऽपि अतिव्याप्तिर्न संभवति । भावापत्त्यलङ्कारे यथा मानुषभावानामारोपः तथा च मानुषव्यवहाराणां अनुष्ठानं नियमेन अपेक्ष्येते तथा रूपकालङ्कारे नेति सुग्राह्यम् । (२) लक्षणोक्त्यलङ्कारः "लक्षणोक्तिविशिष्टानां लक्षणानां समुच्चयः । काकानां वक्रदृष्टिश्च वञ्चनं सहभोजनम् ।। " (यत्र कस्मिंश्चित् विशिष्टवर्गे, विशिष्टसमुदाये, लक्षणानि विशिष्टतया भाव्यन्ते तत्र लक्षणोक्तिर्नाम अलङ्कारः । काकानां वक्रदृष्टिः वञ्चनं, तथा खाद्यमुपलभ्य स्वजातिबन्धून् सर्वतो समाकारियत्वा संभूय भोजनमिति लक्षणसमन्वयः । लक्षणोक्तेरपराण्युदाहरणानि - "पौरुषञ्चाभिमानश्च वादे युद्धे जिगीषता। व्यवसायश्च वाणिज्ये ज्ञाने दाने च दक्षता ॥" "द्यूते स्त्रियां तथा मद्ये मादकेषु विलासिता । लौल्यं कुटुम्बिनिर्वाहे पुंसां सन्ति विशेषतः ॥" "मितव्ययो धृतिः सेवा दुःखितेषु दयार्द्रता । लज्जालङ्कारप्रीतिश्च गृहकार्ये च दक्षता ॥" ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy