SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ राजकोषस्य लुण्ठनं चचाल भारते वर्षे । रक्षका भक्षका जाता: चाटुकाराश्च शिक्षकाः ।। नक्षत्राणां तु गगने गणना खलु संभवा । भ्रष्टाचारविलिप्तानां गणना नैव सभ्भवा ॥' (भा.पृ.३६३-६४) भारतराष्ट्रस्य संरचनायां संरक्षणे संवर्धने च येषां महापुरुषाणां सपर्या विद्यते, तेषां सर्वथा निरपेक्षभावेन कीर्तनमस्य काव्यस्य गौरवं वितनोति । काव्यग्रन्थेऽस्मिन् महनीयकवीनां काव्यानामनुकरणं सहजतया द्रष्टुं शक्यते । दृश्यतां गीतगोविन्दकारस्य प्रभावः - 'चीनानुद्धरते भुवं निवहतेऽस्पृश्यान् समुद्विभ्रते। दुःखं दारयते कलिं छलयते शोकक्षयं कुर्वते। श्रीलङ्कां दयते सुखं वितरते कारुण्यमातन्वते । हिंस्रान् मूर्छयते दयाकृतिकृते बुद्धाय तस्मै नमः ॥' (भा.पृ.२४) राष्ट्रभक्त्या साकं कवेः संस्कृतानुरागोऽपि नितरां प्रशंसनीयोऽस्ति । पठितव्यः संस्कृतस्य महिमा कवेर्वाण्याम् - 'माता पुत्रवती तस्य पत्नी च सधवा स्मृता । स्वसा भ्रातृवतस्य या वै पठति संस्कृतम् ॥' (भा.पृ.४०९) अत्र 'श्रेयावुभावुभौ.' (पृ.२३८) 'चढूंष्युन्मीलनाय' (पृ.३००), 'स्वपातयेच्छिर:' (पृ.३४३) इत्यादयो व्याकरणदृष्ट्या मुद्रणदृष्ट्या च चिन्तनीयाः । ग्रन्थोऽयं सर्वैः संस्कृतज्ञैः संग्राह्योऽस्ति । * प्रकाशकः - अनुरागप्रकाशन, ८२, रामकृष्णपुरलेन, शिवपुर, हावडा, ९१११०२ प्र. व. - रामनवमी, वि.सं. २०५८। पृ. सं. १० + ४१० । मूल्यम् - २५०/ ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy