________________
मङ्गलोऽश्वः ॥
- सा. अमीझराश्रीः वसन्तपुरं नाम नगरमासीत् । पराक्रमी प्रतापवांश्च राजा जितशत्रुस्तन्नगरमनुशास्ति । देशे विदेशे च सर्वत्र तस्य जयजयारवः प्रवर्तते । राज्ञो हस्तिशालायमश्वशालायां च अनेके हस्तिनोऽश्वाश्च विद्यन्ते । सल्लक्षणा हस्तिनोऽश्वाश्चाऽपि तत्राऽनेके सन्ति ।
एकदाऽन्यदेशीयो जनो राज्ञः समीपमुपस्थायोक्तवान् - 'राजन् ! अश्वानां लक्षणानां परीक्षकोऽस्म्यहम् । सेवाकार्यार्थं चोपस्थितोऽस्मि ।' 'अवश्यं, दास्ये तुभ्यं सेवाकार्यं किन्तु प्रथमं दर्शयतु चमत्कृति' - इत्यकथयद् राजा ।
आगन्तुक उवाच - 'भवतु । अश्वाशालां गन्तव्यमस्माभिः ।' राजा प्रधानः सैनिकाश्चाऽश्वशालामागताः। एकैकं कृत्वा स आगन्तुको हयान् परीक्षते । कतिचिदश्वान् परीक्ष्य तेभ्य एकमश्वं बहिरानीय - 'राजन् ! अधुना भवदिच्छामनुसृत्य मम विद्यासामर्थ्यमहं दर्शयामि । आज्ञापयतु भवानेकं सैनिकं यद् सोऽश्वमारोहतु'-इत्यवदत् ।
अश्वश्च स दर्शनीयो मनोहरश्चाऽऽसीत् । राज्ञाऽऽज्ञप्त एकः सैनिकस्तमश्वमारूढवान् । राजाऽचीकथत् - 'एनमश्वं नीत्वा नगरस्य चतुर्वपि दिक्षु भ्रामयित्वाऽऽनयतु' । आज्ञां तां शिरस्यवधार्य स ततो निर्गतः। किञ्चिद् विहस्य स आगन्तुको राजामजल्पत् - 'स्वामिन् ! यः कश्चिदपि एनमश्वमारोहित स झटिति दुःखभाग् भवति। सत्यमेतत्तु भवानधुनैव प्रत्यक्षं द्रक्ष्यति ।' आकण्यैतद् राजा प्रधानश्चोभावपि स्तब्धावभवताम् ।
किञ्चित्कालो व्यतीतः । तावद् दूरतः तं सैनिकं प्रत्यागच्छन्तं दृष्टवान् राजा ! यदा च स समीपमागतः तदा तमाकुलव्याकुलं दृष्ट्वा - 'किं सञ्जातम् ? कथं झटिति प्रत्यागतः ?' - इत्यपृच्छद् राजा । सोऽपि - 'प्रभो ! अकल्प्यं घटितम् । मार्गे केनाऽपि मया ज्ञातं यद् मम गृहादाभूषणानि लुण्टितानि । तथाऽपि धैर्यं धृत्वाऽहमग्रे प्राचलम्, तावत् सम्मुखमागच्छन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org