SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ |७४|| ॥७५॥ ॥७६॥ ॥७७॥ विभावना - ३ पल्लवयति पाषाणान् यद्वागमृतं तिरस्कृतवदनृतम् मङ्गलवचनाऽकिञ्चन-मुख्यः सौख्याय स गुरुः स्तात् विभावना - ४ गुरुवचनश्रवणादनु-भूयत इह शर्करारसो मधुरः । श्रीनेमिवदनचन्द्रात् तिग्मा दीप्तिः समुद्भवति, चित्रम् ! विभावना -५ युष्मत्कृतेन तीर्थो-द्धरणेनाऽकारि युष्मदुद्धारः । चित्रं महतामर्थस्तैरेव कृतात् सरति कार्यात् विभावना -६ दृष्टा नदी गिरिभवा क्वचनापि गिरिनदीभवो नाऽऽप्तः । किन्त्वद्य नेमिगुरुवाग-नद्याः पुण्याद्रिरुद्गतश्चित्रम् विशेषोक्तिः सत्यपि बाहुल्ये खलु प्रत्यूहानां विरोधिनां चैव। नाऽऽपि विफलता स्वीये सत्कर्मणि येन, गुरुरसौ जयतात् असम्भवः तीर्थसमूहं प्रत्नं पुनरुद्धर्ता स्वकीयप्राणपणैः । जङ्गमतीर्थसमोऽभूद्, गुरुरिति केनैष्यतीह विश्वास्यम् ? असङ्गतिः त्वद्वाक्सुधाभिषेको जातो मच्छोत्रयोः प्रभो ! किन्तु । दुर्गुणविषप्रभावा-न्मुक्तं मच्चेतसा तु, चित्रमिदम् असङ्गतिः - २ स्वीयमनोभुवि कर्तुं, ज्ञानालोकं त्वया प्रवृत्तेन । विहितः स एव शिष्य-स्वान्तेष्वद्भुतमदो गुरो ! भवतः ॥७८॥ ॥७९॥ ॥८ ॥ ॥८ ॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy