________________
वाचकानां प्रतिभावः
डो. रूपनारायण पाण्डेयः एस्-२/३३०, राज्यशिक्षासंस्थानकालोनी,
एलनगञ्जः प्रयागः उ.प्र., २११००२
८-१-२००२ मान्याः ,
सादरं प्रणामाः। तत्रभवद्भिः प्रहितं पुस्तकं 'नन्दनवनकल्पतरुः (सप्तमी शाखा) समधिगतम् । अत्र प्रकाशिताः सर्वा रचना रम्याः, ज्ञानवधिन्यश्च । रङ्गमञ्चे 'अहो ! दुर्धर्षा दैवलीला'. ('ईडिपस्' नाटकस्य संस्कृतभावरूपम्) नितरां मार्मिकी रचनाऽस्ति । स्वामिश्रीब्रह्मानन्देन्द्रसरस्वतीमहोदयस्येदं रूपान्तरकार्यं सर्वथा प्रशंसनीयम् अस्ति । मन्ये अग्रेऽपि संस्कृतेतरभाषाणां रम्यसाहित्यस्य संस्कृतरूपान्तरं विधाय स्वामिवर्यः संस्कृतभाषायाः संवर्धने श्लाघनीयमवदानं विधास्यति । जयतु संस्कृतम्, संस्कृतिश्च।।
भवदीयः रूपनारायणपाण्डेयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org