________________
शतमखधनुरिव तदखिलकवनमयि जननि ! नवरसरुचिरमनुपहतरणरणनजननमथ वशयति सहृदयचयहृदयमपनयति निखिलविषमभवरुजमपि स भवति जननि ! गरलधरपशुपतिरखिलभुवनभरकुशलशुभप इह स भवति तमसि किरणनिचयमृदपि स भवति विबुधकुलपकुलिश भृदपि स भवति तव वरवरटसदशगुणधर उदयमृदपि सकृदपि भवति न खलु स जगति किमु बुधजनसदसि लसति ननु विधुरिव ॥५॥
तव जगति जननि ! ननु भवति सकलमतिशयितविधिजकृति करुणघटनमपि सुखयति युगलनयनजलमपि शिशिरयति हृदयमधिकवितमयि जननि ! विधुरपि जनयति तपनमथ च रविरपि विसृजति हिमनिकरमुषसि लसदितरदिव भवति सकलमपि ॥६॥
मयि वितर वितर वरवरटकगुणमयि जननि ! शमय मम निखिलदुरितमपनय मम कलुषनिचयमवतर मम मनसि कवनमपि विशदय ननु रघुकृदुभयचरणकमलमधुकरगतिरयमपि भवतु तव लालितसुत उदयतु कविसदसि शरदि विधुरिव ।।७।। ॥ इति त्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचितं ह्रस्वाक्षरग्रथितं
शारदास्तवनं सम्पूर्णम् ॥
-०
भूमिकापण्डिताः केचित् केचित् फूटनोटपण्डिताः । रेफ्रन्सपण्डिताः केचित् भवन्त्येवं तु डॉक्टराः ॥ (रुद्रदेव त्रिपाठी)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org