SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (७) पर्यायोक्त्यलङ्कारः “सौदामन्या पथि कनकाङ्गी मत्तापाङ्गा घोनरवघोषैः । पर्यायोक्तं बहुकृतवृष्ट्या मुञ्चत्येतन्नहि नहि चित्रम् ॥" - ( वृत्तं मत्ता) ( हन्त, भार्या मे कान्तिमती, सुलभकोपना दुर्वादिनी चेति विवक्षया तटस्थसखायं प्रति कस्यचिद् हतभाग्यस्य निवेदनेयं भङ्गयन्तरेण कृतेति पर्यायोक्त्यलङ्कारस्योदाहरणम् । 'मत्ता' इत्यत्र 'मदघूर्णिता, मत्ता नामवृत्तमिति श्लेषः । (८) तद्गुणालङ्कारः “छद्मवेषधृतदुष्टमानसाः सद्य एव कृतशुद्धचेतसः । क्षुद्रकाच इव पद्मरागतः तदुणेन बसवेश्वरेण ते ।" (वृत्तं रथोद्धता । ददेति वृत्त्यनुप्रासः) (९) पिहितालङ्कारः "आपन्नसत्त्वां सरसीरुहाक्षीं दृष्ट्वैव भर्ता नितरां ननन्द । दोलां दुकूलं पिहितं सुदत्यै मिष्टं च हृष्टः समुपाजहार ॥" (वृत्तं उपेन्द्रवज्रा – ‘पिहितं' - गोपायितं, पिहितं नाम अलङ्कारश्चेति श्लेषः) पायसं कृष्णगीतम् " दग्धं दग्धं त्यजतविरसं शब्दविभ्रंशपातं दुग्धं दुग्धं पुनरुपनिषद्वाक्यमेवाश्रयध्वम् । गायं गायं पिबत मधुरं सन्ततं साधुपीतं पायं पायं भवत सुखिनः पायसं कृष्णगीतम् " (वृत्तं मन्दाक्रान्ता) Jain Education International 101 अत्याचारमनाचार-मत्यार्जवमनाजर्वम् । अतिशौचमशौचं च, षड्विधं कूटलक्षणम् ॥ ६५ For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy