SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ग्रन्थसमीक्षिाभारतविजयम्" समीक्षकः - डॉ.रूपनारायणपाण्डेयः एस्. २/३३०, राज्यशिक्षासंस्थानकालोनी, एलनगञ्जः, प्रयागः, उ.प्र. २११००२ रचियता - आचार्यराधामोहनोपाध्यायः । 'विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनीः', 'माता भूमिः पुत्रोऽहं पृथिव्याः ।' 'भूमेर्मातनिधेहि मा भद्रया सुप्रतिष्ठितम् ।' (अथर्व. १२/१/६, १२/१/१२, १२/१/६३) - इत्यादिवेदवचनेषु या राष्ट्रभक्तिभावना विद्यते, तामाश्रित्य बुधजनैः रामायण-महाभारत-रघुवंशशिवराजविजय-स्वराज्यविजय-विभूतिवन्दनास्तोत्र-भारतशतक-मातृभूलहरीस्वातन्त्र्यवीरशतक-श्रीगान्धिचरित-जवाहरतरङ्गिणी-इन्दिराकीर्तिशतक-शिवप्रतापबिरुदावली-कूहा-इन्दिराशतक-वीरतरङ्गिणीप्रभृतीनि बहूनि राष्ट्रियानि काव्यानि प्रणीतानि, प्रणीयन्ते च । तामेवोदात्तपरम्परामाश्रित्य कविवरेण राधामोहनोपाध्यायेन 'भारतविजयम्' इति महाकाव्यं व्यरच्यत। ___ महाकाव्येऽस्मिन् खण्डचतुष्टयं शोभते । प्रथमे 'इतिहासखण्डे' एकोनविंशतिःसर्गाः सन्ति, यत्र सरस्वतीवन्दना, दुर्गास्तुतिः, भारतवन्दना, जागरणगीतम्, तुलसीदासवन्दनम्, भारतवर्षः, बुद्धदर्शनम्, पोरसविजयः, चन्द्रगुप्तवर्णनम्, शुङ्गवंशविकासः, गुप्तकालः, उत्तरस्वर्णकालः, इस्लामस्य उत्पत्तिः, विकासः, सिन्धविजयः, भारत-महाभारतविस्तारवर्णनम्, कालिदासः, पाणिनिः, व्यासः, विश्वकर्मा, कुतुबुद्दीन ऐबक: अलाउद्दीनः, पद्मिनी, तैमूरः, सैयदः, बाबर:, हुमायूँः, अकबरः, जहाँगीर:, शाहजहाँ, औरङ्गजेबः, शिवराजवीरः, महाराणाप्रतापः, महाराज्ञी लक्ष्मीः, प्रथमस्वतन्त्रतायुद्धम्, मङ्गलपाण्डेयः, जालियाँवालाबागप्रसङ्गः, ऊधमसिंहः, स्वतन्त्रतासंघर्षः, चीतूपाण्डेयः, स्वतन्त्रताप्राप्तिः, कश्मीरसमस्यासंघर्षः गान्धिहत्या, चीनयुद्धम्, पाकयुद्धम्, लालबहादुरशास्त्रिविजयम्, बँगलादेशनिर्माणम् - इत्यादयो विषया मनोज्ञतया वर्ण्यन्ते । द्वितीये 'भक्तिखण्डे' (२०-२९ सर्गेषु) जैनधर्मः, शङ्कराचार्यः, रामानुजाचार्यः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy