SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ कारणमाला सत्सङ्गेन सुमार्गा-नुसरणमथ तेन पुण्ययोगः स्यात् । पुण्येन नेमिगुरुपदसेवाऽथ तयाऽभिलषितसम्प्राप्तिः ॥ एकावलिः निःस्पृहता निर्देन्या, दैन्याभावोऽतितेजसा ज्वलितः । तेजः शमरसरसितं, यस्मिन् विलसन्ति तं स्तुवे नेमिम् मालादीपकम् मनसि मनसिजाद् भीति-र्मनो हि तन्नाशिगुरुपदे रमते । नेमिगुरो ! भयरहितं मनोरमं देहि परमसुखम् सार: अस्त्युन्नतो हिमाद्रि-स्ततोऽपि जलदस्ततोऽपि नेमिगुरोः । प्रतिभाभरः शमसुधां वर्षन् भुवनेऽत्र भव्यतरः यथासङ्ख्यम् कुगुणान् गुणान् गुणज्ञान् शोषयति च पोषयति च तोषयति । यतिततिपतिरतिकुमति-नैमिगुरुर्यः श्रिये सोऽस्तु पर्याय: प्रथमं हेमाचार्यं तदनु श्रीहीरविजयसूरीन्द्रम् । प्रवचनप्रभावकश्रीः श्रिता ततो नेमिसूरीशम् पर्यायः - २ प्रथमं सूरिप्रवरः, शासनसम्राट् ततोऽभवत् पुण्यैः । तदनु च जगद्गुरुतया, प्राप्तः ख्यातिं गुरुर्नेमिः परिवृत्ति: दत्वा जलाञ्जलिं किल ममतायै, साम्यसागरो येन ॥ सम्प्राप्तः, स्याद् भूत्यै विभूतिमान्नेमिसूरिः सः Jain Education International २६ For Private & Personal Use Only ॥९८।। ॥९९॥ ॥१००॥ ॥१०१॥ ॥१०२॥ ॥१०३॥ ॥१०४॥ ॥१०५॥ www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy