SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ झेन-कथाः ॥ प्रस्तुतिः -शी. त्सेग त्सानः अवोचत् - आसीन्ममैकं मित्रं 'येन हुई' इत्यभिधः । स बहुज्ञः सन्नपि निजज्ञानसंवर्धनार्थं अल्पज्ञमपि पृच्छति स्म । स धनिकोऽपि भूत्वा अकिञ्चन इव वर्तते स्म। स गुणपरिपूर्णोऽपि सन् स्वं निर्गुणत्वेन प्रस्तौति स्म। तेन समं यदि कोऽपि दुर्व्यवहारं कुर्यात्, तदापि स सस्मितं मौनभावेनैव तं तितिक्षते स्म। (२) आसीदेको गुरुः। स संस्थापितस्य धर्मस्य भयस्थानानि प्रति सवाधानीभूय वर्तितुं सदैव स्वशिष्यान् शिक्षयति स्म । सोऽकथयत् - मया एक एतादृशो महान् गुरुरदर्शि, यो नित्यं प्रज्वलितमलातं हस्ते गृहीत्वा पर्यभ्रमत्, अकथयच्च यद् "अहं सर्वाणि मन्दिराणि धक्ष्यामि, यतो जनास्तदनन्तरमेव मन्दिरं हित्वा भगवति मनांसि प्रणिदधीरन् ।" Cine O (३) सततं ईशतत्वं प्रार्थयमानः शिष्यस्तजितो गुरुणा - 'त्वं भगवत आधारं हित्वा स्वपादनिर्भरः कदा भविष्यसि रे!? '। शिष्यश्चकितः । तेन पृष्टम् - परन्तु भवद्भिरेव शिक्षितोऽहं यदीश्वर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy