SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥१३८॥ ॥१३९।। R ॥१४०॥ ॥१४॥ पूर्वरूपम् देहावृतमपि रूपं निजात्मनो बोधदीपकेन भवान् । भिन्न प्रतीतवानिति नेमिगुरो ! हारि तव सर्वम् पूर्वरूपम् - २ अस्तमितेषु समेषु युगप्रधानोपमेषु पूज्येषु । अपि नेमिसूरिदीपो द्योतितवान् शासनद्यां सः अतद्गुणः जिनशासनानुरागो यद्यपि भरितस्तवाऽस्थिमज्जासु । नश्वरता च कुगन्ध-स्तथापि न प्रापि तेन, चित्रमिदम् अनुगुणः निसर्गतोऽसि नृरत्नं तत्र च गुरुवृद्धिचन्द्रमणिकारैः । मलमपहृत्य विनिहितं तेजोऽपूर्वं ततोऽवशिष्टं किम् ? ।। मीलितम् उज्ज्वलतेजःपुञ्ज-श्लिष्टं भवतां यशोंऽशुराशिमिह । कोऽपि विवेक्तुं नाऽलं, गुरुवर ! कः पुण्यपुञ्जोऽयम् ! सामान्यम् श्रीनेमिसूरिचरणा-म्भोजरजःकान्तपुण्यभूमितले । अवकीर्णोऽपि न गम्य-स्तदीयपुण्याणुसंघातः उन्मीलितम् प्रसरत्यपि दशदिक्षु सूर्यकरैः सह भवद्यशःप्रकरः । उष्णाऽनुष्णत्वाभ्यां बोधन्ति बुधास्तयोर्भेदम् विशेषकः गुरुदेवनेमिसूरे-रुपदेशदिवाकरे प्रसृमरेऽत्र । सत्कर्माऽसत्कर्मसु विसदृशता लक्षिता लोकैः ॥१४२॥ ॥१४३॥ ॥१४४|| ॥१४५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy