Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥२४२॥
क्त्वद्वारे एतन्मतेन सम्यग्दृष्टिराभिनिबोधिकस्य पूर्वप्रतिपन्न एव भवति, न तु प्रतिपद्यमानकः, सम्यक्त्व-ज्ञानयोर्युगपल्लाभात् , तत्काले च क्रियाया अभावात् , तदभावे च प्रतिपद्यमानकत्वायोगादिति । निश्चयनयमतेन तु सम्यग्दृष्टेराभिनिवोधिकस्य पूर्वपतिपन्नः, प्रतिपद्यमानकश्च लभ्यते, क्रियायाः कार्यनिष्ठायाच युगपद्भावस्य समर्थितत्वात् । इत्यलमतिविस्तरेण ॥ इति गाथात्रयोदशकार्थः॥
ज्ञानद्वारे- मति-श्रुता-ऽवधि-मनःपर्याय-केवलभेदात् पञ्चधा ज्ञानम् । व्यवहारनयमतेन मति-श्रुता-ऽवधि-मनःपर्यायज्ञानिन आभिनिबोधिकस्य पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, ज्ञानिनो मतिज्ञानप्रतिपत्त्ययोगस्यैतन्मतेन प्रागुक्तत्वात् । केवलिनां तूभयाभावः, तेषां क्षायोपशमिकज्ञानातीतत्वात् । मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानवन्तस्तु प्रतिपद्यमानकाः कदाचिद् भवन्ति, युक्तेर्दर्शितत्वात् , न तु प्रतिपन्नाः । निश्चयनयमतेने तु मति-श्रुता ऽवधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि भजनीयाः, ज्ञानिनो ज्ञानप्रतिपत्तेः समर्थितत्वात् । मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव भवन्ति, न तु प्रतिपद्यमानकाः, पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चादन्त्यावस्थायां मनःपर्यायज्ञानसद्भावात् । केवलिनां तूभयाभावः । एवं मत्याद्यज्ञानवतामप्युभयाभाव एव, ज्ञानिन एव ज्ञानप्रतिपत्तेः ।
दर्शनद्वारे- चक्षु-रचक्षु-रवधि-केवलदर्शनभेदाद् दर्शनं चतुर्धा । अत्राऽऽद्यदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः, तदुपयोगं त्वाश्रित्य पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात्, लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् “सव्वाओ वि लद्धीओ सागरोवउत्तस्स उववज्जति" इति वचनादिति । केवलदनिनां तूभयाभावः।
संयतद्वारे--- संयतादय आभिनिवोधिकस्य पूर्वपतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमाना अपि भजनया प्राप्यन्ते । ननु सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमानकोऽवाप्यते । सत्यम्, किन्तु योऽतिविशुद्धिवशात् सम्यक्त्वं, चारित्रं च युगपत् प्रतिपद्यते, स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्य प्रतिपन्नत्वात् संयतो मतेः प्रतिपद्यमानको भवतिः उक्तं चाऽऽवश्यकचूर्णी- “नस्थि चरितं सम्मत्तविहूर्ण दसणं तु भयणिज्ज" । भजनामेवाह-- "सम्मत्त-चरित्ताई जुगवं, पुव्वं च सम्मत्तं"।
उपयोगद्वारे- उपयोगो द्विधा- पञ्च ज्ञानानि, त्रीणि चाऽज्ञानानि साकारोपयोगः; चत्वारि दर्शनानि अनाकारोपयोगः । तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भजनीयाः । अनाकारोपयोगे तु प्रतिपन्ना एव, न तु प्रतिपद्यमानकाः,
SHere
॥२४२॥
१ क.ग. 'न पूर्वप्र' । २ क.ग. 'न म' । ३ घ.छ. 'वः म' क. 'व एव म' । ४ सर्वा अपि लब्धय: साकारोपयुक्तस्योपपद्यन्ते । ५ क.ग. 'यश्चाभि' । ६ नास्ति चारित्रं सम्यक्त्वविहीनं, दर्शनं तु भजनीयम् । ७ सम्यक्त्व-चारित्रे युगपत्, पूर्व च सम्यक्त्वम् ।
HORSee
For Personal and Private Use Only
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202