Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
अखबाटाहर पटकन
विशेषा
बृहद
॥३०॥
दर्शनेन पश्यति, तस्य तदसंभवात् । यथा हि मनःपर्यायज्ञानं स्वभावेनैव स्पष्टार्थग्राहक, इति न तत्र दर्शनम्, एवं श्रुतज्ञानेऽपि तदपि र्थविकल्पनावस्थायामन्तर्जल्पाकारत्वाद् विशेषमेव गृह्णाति न सामान्यमिति भावः। तथा च नन्दिसूत्रम्- 'तं समासओ चउम्बिह पण्णत्तं, तं जहा-दबओ खेत्तओ, कालओ, भावओ | दव्वओ णं सुयनाणी उवउत्तो सम्वदव्वाई जाणइ न पासइ, एवं सव्वखेत्तं, सब्बकालं, सब्बभावे जाणइ न पासइ" इति । अन्ये तु नत्रः पाठं न मन्यन्ते । ततश्च " जाणइ पासइ" इति पठन्ति । अतः 'श्रुतज्ञान्यपि दर्शनेन पश्यति' इति ते मन्यन्ते, यच्चासौ दर्शनेन पश्यति तदचक्षुर्दर्शनेनेति मन्यन्ते । इदमत्र हृदयम्- यस्य श्रुतज्ञानं तस्य | मतिज्ञानमवश्यमेव भवति । मति-श्रुतज्ञानस्य च चक्षुरचक्षुर्दर्शनभेदाद् द्विभेदं दर्शनमुक्तम् । तत्र किल चक्षुर्दशनेन मतिज्ञानं पश्यति, अचक्षुर्दर्शनेन पुनः श्रुतज्ञानमिति ।। ५५३॥
एतत् तेषां मतमसमीक्षिताभिधानत्वाद् यदृच्छावादमात्रमिति दर्शयबाह
तेसिमचक्खुइसणसामणओ कहं न मइनाणी । पासइ, पासइ व कहं सुयनाणी किंकओ भेओ ? ॥५५॥
तेषां नमः पाठमनभ्युपगच्छता मतिज्ञान-श्रुतज्ञानयोरिन्द्रिय-मनोनीमत्ततासाम्यादचक्षुर्दर्शने समानेऽपि कथं हन्त ! तेनाऽचक्षुर्दर्शनेन मतिज्ञानी न पश्यति', कथं वा तेन श्रुतज्ञानी पश्यति ? । यदि हि श्रुतज्ञानी तेन पश्यति तहि मतिज्ञान्यपि पश्यतु । अथासौ न पश्यति, तीतरोऽपि मा पश्यतु । ननु किंकृतोऽयं भेदो, यदचक्षुर्दर्शने समानेऽपि तेनैकं ज्ञानं पश्यति, अपरं तु न पश्यति ? । खेच्छाभाषितत्वमानं विहाय नापरमत्र कारणं पश्याम इति भावः । तस्मात् “ जाणइ न पासइ" इति स्थितमिति ॥ ५५४॥
___ अथवा प्रज्ञापनोक्तां पश्यत्तामाश्रित्य श्रुतज्ञानेऽपि पश्यत्ता युक्ता । ततश्च " जाणइ पासइ" इत्यपि पाठो युक्त इति दर्शयन्नाह
मैइभेयमचक्खुईसणं च वजित्तु पासणा भणिया । पण्णवणाए उ फुडा तेण सुए पासणा जुत्ता ॥५५५॥
१ तत् समासतश्चतुर्विध प्रज्ञप्तम्, तद्यथा- दृष्यतः, क्षेत्रतः, काकतः, भावतः । द्रव्यतः श्रुतज्ञान्युपयुक्तः सर्वव्याणि चानाति, न पश्यति । __एवं सर्वक्षेत्र, सर्वकालं, सर्वभावान् जानाति न पश्यति ।
EO २ तेपामचक्षुदर्शनसामान्यतः कथं न मतिज्ञानी । पश्यति, पश्यति वा कथं श्रुतज्ञानी, किंकृतो भेवः॥ ५५४ ॥ ३ मतिभेदमचक्षुदर्शनं च पर्जविस्था पश्यत्ता भणिता । प्रज्ञापनायां तु स्फुदा तेन भुते पश्यत्ता युक्ता ॥ ५५५ ॥
868885606
॥३०॥
Educ
a
tio
For Personal
Private Use Only
alwww.jaineltrary.org
Loading... Page Navigation 1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202