Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 172
________________ विशेषा० ॥३७० ॥ Jain Educationa Internation अभितरली सा जत्थ पईवप्पभ व्व सव्वत्तो । संबद्धमोहिनाणं अब्भंतरओऽवहीनाणी || ७५३ ॥ गतार्थैव, नवरं ‘संबद्धमित्यादि' अवधिज्ञानं जीवे संबद्धं सर्वतो भवति, अवधिज्ञानी त्ववधिज्ञानस्याऽभ्यन्तरतो भवतीति।।७५३।। बृहद्वृत्तिः। अथात्रोत्पाद-प्रतिपातविधिमाह उप्पाओ विगमो वा दीवस्स व तस्स नोभयं समयं । न भवण-नासा समयं वत्थुस्स जमेगधम्मेणं ॥७५४॥ अभिहितार्थैव, नवरं यस्माद् वस्तुनो द्रव्यस्यैकेन धर्मेण स्वभावेन समकं युगपद् न नैव भवन- नाशौ उत्पाद व्ययौ कदाचनापि भवतः । न ह्यङ्गुलिद्रव्यं येनैवर्जुत्वधर्मेण ऋजु प्राञ्जलं भवति, तेनैव व्येतीति युज्यते, विरुद्धत्वात् : धर्मान्तरेण त्वेकस्यैककालमपि युज्येते उत्पाद - व्ययौ यथा तदेवाऽङ्गुलिद्रव्यं यस्मिन्नेव समये ऋजुतयोत्पद्यते, तस्मिन्नेव समये वक्रतया विनश्यति, द्रव्यतया त्ववस्थितमेवाssस्त इति ।। ७५४ ॥ एतदेवाह - उपाय - व्यय धुवया समयं धम्मंतरेण न विरुद्धा । जह रिउ वक्कंगुलिता सुर-नर- जीवत्तणाई वा ॥ ७५५॥ उप्पज्जइ रिउयाए नासइ वक्कत्तणेण तस्समयं । न तम्मि चेव रिउयानासो वक्कत्तभवणं च ॥ ७५६ ॥ गतार्थे एव, नवरं तत्प्रत्ययः प्रत्येकमभिसंबध्यते, यथा ऋजुता, वक्रता, अङ्गुलिता चेति; एतत्रितयमपि युगपद् धर्मान्तरेण न विरुद्धम् | यदि वा यथा कोऽपि मृतः साधुर्यस्मिन्नेव समये देवत्वेनोत्पद्यते तस्मिन्नेव नरत्वेन विनश्यति, जीवत्वेन पुनरवतिष्ठते । एवमिहाsपि युगपद् धर्मान्तरेणोत्पादादयो न विरुध्यन्ते । न त्वेकेनैव धर्मेण युगपत् ते युज्यन्ते, तदेवाह - 'न उ तम्मीत्यादि' न पुनरेतद् युज्यते । किम् ?, इत्याह- 'रिउयेत्यादि' यस्मिन्नेव समयेऽङ्गुल्या ऋजुता जायते, तस्मिन्नेव समये तस्या ऋजुताया नाशो भवति, भाविवक्रत्वस्य भवनं चेति । एवं हि 'ऋजुता ऋजुत्वधर्मेणोत्पद्यते, तेनैव धर्मेण तस्मिन्नेवोत्पत्तिसमये सा विनश्यति' इत्यभ्युपगतं भवति, दूरविरुद्धं चैतत् ।। ७५५ ।। ७५६ ॥ १ अभ्यन्तरलब्धिः सा यत्र प्रदीपप्रभेव सर्वतः । संबद्धमवधिज्ञानमभ्यन्तरतोऽवधिज्ञानी ॥ ७५३ २ उत्पादो विगमो वा दीपस्येव तस्य नोभयं समकम् । न भवन-नाशौ समकं वस्तुनो यदेकधर्मेण ॥ ७५४ ॥ ३ उत्पाद-व्यय-ध्रुवता समकं धर्मान्तरेण न विरुद्वा । यथा ऋजु वक्रा ऽङ्गुलिता सुर-नर-जीवत्वानि वा ॥ ७५५ ॥ उत्पद्यते ऋजुतया नश्यति वकत्वेन तत् समकम् । न तु तस्मिन्नेवर्जुतानाशो वक्रत्वभवनं च ॥ ७५६ ॥ ४ क. ख.ग. 'उ चैव तम्मि रि' । For Personal and Private Use Only ॥३७०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202