Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 199
________________ विशेषा० ॥३९७॥ Jain Education Internatio इह समुत्पन्नकेवलज्ञानस्तीर्थकरादिरर्थान् धर्मास्तिकायादीन् मूर्ती मूर्ती भिलाप्याऽनभिलाप्यान् केवलज्ञानेनैव ज्ञात्वाऽवबुध्य, न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्, केवलिनश्चाऽऽवरणस्य सर्वथा क्षीणत्वेन तत्क्षयोपशमाभावात् ; न हि सर्वशुद्धे पटे देशशुद्धिः बृहद्वृत्तिः । संभवति, तद्वदिहापीति भावः ततः किम् ?, इत्याह- तत्र तेषामर्थानां मध्ये ये प्रज्ञापनीयाः प्ररूपणीया योग्यास्तानभिलप्यान् भाषते, नेतरान् - अनभिलप्यान् । प्रज्ञापनीयानपि न सर्वानेव भाषते, तेषामनन्तत्वात्, आयुषस्तु परिमितत्वात् । किं तर्हि १, योग्यानेव भाषते ग्रहीतृशक्त्यपेक्षया, यो हि यावतां योग्य इति । यत्र चाभिहिते शेषमनुक्तमपि विनेयोऽभ्यूहति तदपि योग्यं भाषते; यथा ऋषभ सेनादीनामुत्पादादिपदत्रयोपन्यासेनैव शेषगतिः । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिर्भाष्यमाणस्तस्य भगवतो 'वजोग ति' वाग्योग एव भवति, न तु श्रुतम्, नामकर्मादियजन्यत्वात् श्रुतस्य च क्षायोपशमिकत्वात् ज्ञानमप्यस्य क्षायिकत्वात् केवलमेव, न भावश्रुतम् । आह- ननु वाग्योगः, वाक्परिष्यन्दः, वाग्वीर्यम्, इत्यनर्थान्तरम् । अयं च भवतु नामकर्मोदयजन्यः, भाष्यमाणस्तु पुद्गलात्मकः शब्दः किं भवतु ?, इति चेत् । उच्यते- सोऽपि श्रोतॄणां भावश्रुतकारणत्वाद् द्रव्यश्रुतमात्रं भवति, न तु भावश्रुतम् । तर्हि किं तद् भावश्रुतम् १, इत्याह- 'सुर्य हवइ सेसं ति' यच्छास्थानां गणधरादीनां श्रुतग्रन्थानुसारि ज्ञानं तदेव केवलगतज्ञानापेक्षया शेषमन्यद् भावश्रुतं भवति, क्षायोपशमिकोपयोगात्, न तु केवलिगतम्, तस्य क्षायिकत्वादिति । अथवा 'सुहव सेस' इत्यन्यथा व्याख्यायते तद् भण्यमानं शब्दमात्रं तत्काल एव श्रुतं न भवति, किं तर्हि ?, शेषं 'कालम् ' इति वाक्यशेषः । इदमुक्तं भवति तत् केवलिनः शब्दमात्रं श्रोतॄणां श्रवणानन्तरलक्षणे शेषकाले श्रोतृगतज्ञानकारणत्वेनोपचारात् श्रुतं | भवति, न तु भणनक्रियाकाल इति । अथवा, अन्यथा व्याख्यायते - स केवलिनः संबन्धी वाग्योगः श्रुतं भवति । कथंभूतम् १, शेर्पा- गुणभूतम् - प्रधानम्, औपचारिकत्वादिति । अन्ये तु पठन्ति - 'वड्जोगसुयं हवइ तेसिं ति' । तत्र तेषां भाषमाणानां संबन्धी वाग्योगः श्रोतृगतश्रुतकारणत्वात् श्रुतं भवति, द्रव्यश्रुतमित्यर्थः । अथवा, तेषामिति श्रोतॄणां तानाश्रित्येत्यर्थः, भाषकगतं वाग्योग एव श्रुतं वाग्योगश्रुतं भवति, भावश्रुतकारणत्वाद् द्रव्यश्रुतमेवेत्यर्थः अथवा, तानर्थान् भाषते केवली, वाग्योगश्चाऽयमस्य भाषमाणस्य भवति, तेषां श्रोतॄणां भावश्रुतकारणत्वात् श्रुतमसौ भवति ।। इति नियुक्तिगाथार्थः ।। ८२९ ॥ For Personal and Private Use Only ॥३९७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202