Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 197
________________ उहाहा विशेषा. हत्तिः। ॥३९५॥ पश्यत्ता प्रोक्ता, तयैवासौ 'मनःपर्यायज्ञानी पश्यति' इति व्यपदिश्यते । तत् केन किल हेतुनाऽभिप्रायान्तरवादिनां संदेहोत्र, येनाऽपराऽपरान् निजनिजाभिप्रायानत्र प्रकटयन्ति ?, तस्यैव प्रकारस्याऽऽगमोक्तत्वेन निदोपत्वादिति भावः प्रक्षेपगाथा चेयं लक्ष्यते, चिरन्तनटीकाद्वयेऽप्यगृहीतत्वात् , केषुचिद् भाष्यपुस्तकेष्वदर्शनाच्च; केवलं केषुचिद् भाष्यपुस्तकेषु । दर्शनात् , किञ्चित्साभिप्रायत्वाचाऽस्माभिग्रहीता ।। इति द्वादशगाथार्थः ॥ सत्पदप्ररूपणतादयोऽस्याऽप्यवधिवद् वाच्याः, केवलमप्रमत्तसंयतोऽस्योत्पादस्वामी, तदनुसारेण सर्वत्र नानात्वं स्वयमभ्यूह्यम् ॥ ८२२ ॥ ॥ मनःपर्यायज्ञानं समाप्तमिति ॥ PROSOF (OS अथ ज्ञानपञ्चकभणनक्रमायातं केवलज्ञानमुच्यते अह सव्वदव्यपरिणामभावविन्नत्तिकारणमणतं । सासयमप्पडिवाई एगविहं केवलन्नाथ ॥ ८२३ ॥ इह नन्द्यादिमूत्रनिर्देशक्रमात् , तथा शुद्धितः, लाभतश्च पूर्व 'आभिणिबोहियनाणं' इत्यादिगाथायां मनःपर्यायज्ञानादनन्तरं केवल. ज्ञानमुपन्यस्तम् , अतस्तदर्थसूचकोऽयमयशब्दः । अथाऽनन्तरं केवलज्ञानमुच्यते । कथंभूतम् ?, इत्याह- सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि जीवादीनि तेषां परिणमनानि परिणामाः प्रयोग-विस्रसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः सत्ता स्वलक्षणं वा तस्य विविधं विशेषेण वा ज्ञपनं बोधनं विज्ञप्तिः, अथवा, विविधविशेषेण वा ज्ञानमवबोध: परिच्छित्तिर्विज्ञप्तिः, तस्याः केवलज्ञानाभेदेऽपि विवक्षितभेदायाः कारणं हेतुर्विज्ञप्तिकारणं सर्वद्रव्य-क्षेत्र-काल-भावाऽस्तित्वपरिच्छेदकमित्यर्थः । तच्चानन्तज्ञेयविषयत्वेनाऽनन्तपर्यायत्वादनन्तम् शश्वद्भावात् शाश्वतं सततोपयोगमित्यर्थः, तथा, अप्रतिपाति-अव्ययं सदाऽवस्थायीत्यर्थः समस्तावरणक्षयसंभूतत्वादेकविध भेदविषमुक्तम् ; केवलं परिपूर्णसमस्तज्ञयावगमात् , मत्यादिज्ञाननिरपेक्षत्वादसहायं वा केवलं, तच तज्ज्ञानं च केवलज्ञानम् ॥ इति नियुक्तिगाथार्थः ।। ८२३ ॥ अथ भाष्यम् 1 अथ सर्वव्यपरिणामभावविज्ञप्तिकारणमनन्तम् । शाश्वतमप्रतिपाति एकविधं केवलज्ञानम् ॥ ८२३ ॥ २ गाथा ७९ । ॥३९५॥ Jan Education interna For Personal Use Only

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202