Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषाः
SCOTCOOPOS
॥३९३॥
तं जहा- चक्खुद्दसणे, अचक्खुईसणे, ओहिदसणे, केवलदसणे" इति । तस्मात् पञ्चमस्य मनःपयोयदर्शनस्याऽनुक्तत्वात् 'तेन पश्यति' इत्येतदपि नोपपद्यत इति ॥ ८१७ ॥ __ अभिप्रायान्तरमाशङ्कमान आह
अहवा मणपजवदंसणस्स मयमोहिदंसणं सण्णा । विभंगदसणस्स व नणु भणियमिदं सुयाईयं ॥ ८१८॥
अथवा कश्चिदेवं मन्येत- यथा विभङ्गदर्शनमवधिदर्शनमेवोच्यते, तथा मनःपर्यायदर्शनस्याऽप्यवधिदर्शन मिति संज्ञाऽभिमता भविष्यति । इदमुक्तं भवति- चक्षुरादिदर्शनचतुष्टयाऽऽधिक्येनाऽनुक्तमपि यथाऽवधिदर्शनेऽन्तर्भूतं विभङ्गदर्शनमिष्यते, तथा मनःपर्यायदर्शनमपि भविष्यति । ततः 'तेन मनःपर्यायज्ञानी पश्यति' इत्युपपत्स्यत एवेति । अत्र सूरिराह- नन्वेतत् श्रुतातीतमागमविरुद्धमेव त्वया भणितम् ।। ८१८॥ कुतः ?, इत्याह
जेण मणोनाणविओ दो "तिण्णि व दसणाई भणियाई। जइ ओहिदसणं होज, होज नियमेण तो तिण्णि॥८१९॥ __यस्माद् भगवत्यामाशीविषोद्देशके मनःपर्यायज्ञाने चक्षु-रचक्षुर्दर्शनलक्षणे द्वे दर्शने, चक्षु-रचक्षु-रवधिदर्शनलक्षणानि त्रीणि वा दर्शनानि मोक्तानि-यो मति-श्रुत-मनःपर्यायज्ञानत्रितयवांस्तस्य द्वे दर्शने, यस्तु मति-श्रुता-ऽवधि-मनःपर्यायज्ञानचतुष्टयवांस्तस्य त्रीणि दर्शनानीति भावः । तस्मादुत्सूत्रं मनःपर्यायज्ञानवतोऽवधिदर्शनसंज्ञितदर्शनाभिधानम् । यदि पुनरित्यं स्यात् , तदा मति-श्रुत-मनःपर्यायज्ञानत्रयवतोऽपि दर्शनानि नियमात् त्रीण्येव स्युः, न तु कापि द्वे, तस्मात् श्रुतातीतमिदमिति ॥ ८१९ ॥
अन्ये त्वाहुः । किम् ?, इत्याह
'अन्ने उ मणोनाणी जाणइ पासइ य जोऽवहिसमग्गो । इयरो य जाणइ च्चिय संभवमेत्तं सुएऽभिहियं ॥८२०॥
अन्ये तु मन्यन्ते- योऽवधिज्ञानयुक्तो मनःपर्यायज्ञानी चतुर्सानीत्यर्थः, असौ मनःपर्यायज्ञानेन जानाति, अवधिदर्शनेन तु १ अथवा मनःपर्यवदर्शनस्य मतमवधिदर्शनं संज्ञा । विभङ्गदर्शनस्येव ननु भणितमिदं श्रुतातीतम् ॥ ८१८ ॥ २ क. ग. 'मन्यते य' । ३ येन मनोज्ञानविदो द्वे ब्रीणि वा दर्शनानि भणितानि । यद्यवधिदर्शनं भवेत् , भवेयुर्नियमेन ततस्त्रीणि ॥ ८१९ ॥ ४ क. ख. ग. 'तिन्नि व । ५ क. ग. स. 'तिनि'। ६ भन्ये तु मनोज्ञानी जानाति पश्यति च योऽवधिसहितः । इतरच जानात्येव संभवमात्र श्रुतेऽभिहितम् ॥ ८२० ॥
CROIDDEOS
।
॥३९॥
५०
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202