Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
॥३९१॥
न सामान्यम् । अतो ज्ञानरूपमेवेदम्, न पुनरिह दर्शनमस्ति, सति च तस्मिन् पश्यतीत्युपपद्यते, इति कथमिहोक्तं 'पासई' इति ?, इति चेतास संपधार्य पाह
बृहद्वात्तिः। सो य किर अचक्खुदंसणेण पासइ जहा सुयन्नाणी । जुत्तं सुए परोक्खे पच्चक्खे न उ मणोनाणे ? ॥८१५॥
स च मनःपर्यायज्ञानी किलाऽचक्षुर्दर्शनेन पश्यति, यथा श्रुतज्ञानी केषांचिद् मतेनाऽचक्षुर्दर्शनेन पश्यतीति प्रागुक्तम् । तथा च । पूर्वमभिहितम्
'डेवउत्तो सुयनाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदसणेणं ति' ॥१॥
इत्यादि । इदमत्र हृदयम्- परस्य घटादिकमर्थ चिन्तयतः साक्षादेव मनःपर्यायज्ञानी मनोद्रव्याणि तावजानाति, तान्येव च मानसेनाञ्चक्षुर्दर्शनेन विकल्पयति अतस्तदपेक्षया 'पश्यति' इतीत्युच्यते । ततश्चैकस्यैव मनःपर्यायज्ञानिनः प्रमातुर्मनःपर्यायज्ञानादनन्तरमेव । मानसमचक्षुदर्शनमुत्पद्यते, इत्यसावेक एवं प्रमाता मनःपर्यायज्ञानेन मनोद्रव्याणि जानाति, तान्येव चाऽचक्षुर्दर्शनेन पश्यतीत्यभिधीयत इति ।
- अत्र कश्चित् प्रेरकः प्राह- 'जुत्तमित्यादि' "मति-श्रुते परोक्षम्" इति वचनात् परोक्षार्थविषयं श्रुतज्ञानम् , अचक्षुर्दर्शनमपि मतिभेदत्वात् परोक्षार्थविषयमेवः इत्यतो युक्त घटमानकं श्रुतज्ञानविषयभूते मेरु-स्वर्गादिके परोक्षेऽर्थेऽचक्षुर्दर्शनम् , तस्यापि तदालम्बनत्वेन समानविषयत्वात् । किं पुनस्तर्हि न युक्तम् ?, इत्याह- 'न उ इत्यादि' "अवधि-मनःपर्याय केवलानि प्रत्यक्षम्" इति वचनात् पुनः प्रत्यक्षार्थविषयं मनःपर्यायज्ञानम् । अतः परोक्षार्थविषयस्याऽचक्षुर्दर्शनस्य कथं तत्र प्रवृत्तिरभ्युपगम्यते, भिन्नविषयत्वात् ॥८१५।। . अत्र सूरिराह
जइ जुज्जए परोक्खे पच्चक्खे नणु विसेसओ घडइ । नाणं जइ पच्चक्खं न दंसणं तस्स को दोसो?॥८१६॥
यदि परोक्षेऽर्थेऽचक्षुर्दर्शनस्य प्रवृत्तिरभ्युपगम्यते, तर्हि प्रत्यक्षे सुतरामस्येयमङ्गीकर्तव्या, विशेपेण तस्य तदनुग्राहकत्वात् , चक्षुःप्रत्यक्षोपलब्धघटादिवदिति । अत्राह- को वै न मन्यते, यत् प्रत्यक्षोऽर्थः सुतरामचक्षुर्दर्शनस्याऽनुग्राहक इति ?; केवलं प्रत्यक्षमनो
॥३९॥ सच किलाचक्षुर्वर्शनेन पश्यति यथा श्रुतज्ञानी । युक्तं श्रुते परोक्षे प्रत्यक्षे न तु मनोज्ञाने ॥ ८१५॥ २ गाथा ५५३ । ३ यदि युज्यते परोक्षे प्रत्यक्षे ननु विशेषतो घटते । ज्ञानं यदि प्रत्यक्षं न दर्शनं तस्य को दोषः ॥ १६॥ ४ क. 'ओ मुणई।
LPIPRRRRRRRRRRRRRRORIES
ज
Jan Educa
t14
For Personal
Pre Use Only
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202