Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 196
________________ CBSED o पश्यति । यस्त्ववधिरहितस्त्रिज्ञानी स मनःपर्यायज्ञानेन जानात्येव, न तु पश्यति, तस्याऽवधिदर्शनाभावात् । अतो मनःपर्यायज्ञानमात्रविशेषा० माश्रित्य संभवमात्रतो जानाति, पश्यति चेति नन्दिमूत्रेऽभिहितमिति ॥ ८२०॥ ____ अन्ये तु 'जानाति, पश्यति' इत्यन्यथा समर्थयन्ति, इत्याह॥३९४|| 'अन्ने जे सागारं तो तं नाणं न दंसणं तम्मि । जम्हा पुण पञ्चक्खं पेच्छइ तो तेण तन्नाणी ॥ ८२१॥ अन्ये त्याहुः- यद् यस्मात् पटुक्षयोपशमप्रभवत्वाद् मनःपर्यायज्ञानं साकारमेवोत्पद्यते, ' तो ति' ततस्तज्ज्ञानमेव, तेन जानात्येवेत्यर्थः, न पुनस्तत्र मनःपर्यायज्ञानेऽवधि-केवलयोरिव दर्शनमस्ति । तर्हि 'पश्यति' इति कथम् ?, इत्याह-- यस्मात् पुनः प्रत्यक्ष मनःपर्यायज्ञानं, 'तो ति ततः प्रत्यक्षत्वात् तेनैव मनःपर्यायज्ञानेन पश्यत्यसौ तज्ज्ञानी- स चासौ ज्ञानी चे तज्ज्ञानी, मनःपर्यायज्ञानीत्यर्थः । इदमुक्तं भवति- 'दशिर प्रेक्षणे' प्रकृष्टं चेक्षणं प्रत्यक्षस्यैवोपपद्यते, प्रत्यक्षं च मनःपर्यायज्ञानम् , अतस्तेन पश्यतीति घटत एव । साकारत्वेन तु तस्य ज्ञानत्वात् 'तेन जानाति इति निर्विवादमेव सिद्धम् । तस्माद् दर्शनाभावेऽपि यथोक्तन्यायात् 'मनःपर्यायज्ञानी जानाति, पश्यति' इत्युपपद्यत एवेति । एतदपि मूलटीकाकृता दुषितमेव, तद्यथा- ननु मनःपर्यायज्ञाने साकारत्वेन ज्ञानत्वाद् दर्शनं नास्ति, अथ च 'प्रत्यक्षत्वेन दृश्यतेऽनेन वस्तु' इति विरुद्धैवेयं वाचोयुक्तिः, साकारत्वेन निषिद्धस्यापीह दर्शनस्य 'दृश्यतेऽनेनेति दर्शनम्' इति व्युत्पत्त्या सामर्थ्यादापत्तेः । किञ्च, 'जानाति' इत्यनेनाव साकारत्वं स्थापितम् , 'पश्यति' इत्यनेन च दर्शनरूढेन शब्देनाऽनाकारत्वं व्यवस्थाप्यते, अतो विरुद्धोभयधर्मप्राप्त्याऽपि न किञ्चिदेतदिति ॥ ८२१ ॥ आह- यद्यमी सर्वेऽपि पूर्वोक्ता अन्येषामेवाऽभिप्रायाः, सदोषाश्च केऽपि कथञ्चित् । ताचार्यस्य कोऽभिप्रायः ?, इत्याशङ्कयाह भैण्णइ, पन्नवणाए मणपज्जवनाणपासणा भणिया । तो एव पासए सो, संदेहो हेउणा केण ? ॥ ८२२ ॥ भण्यते स्थितः पक्षोत्र । कः ?, इत्याह- प्रज्ञापनायां त्रिंशत्तमपदे मनःपर्यायज्ञानस्य प्रकृष्टेक्षणलक्षणा साकारोपयोगविशेषरूपा OTE 59Q ॥३९४॥ , अन्ये यत् साकारं ततस्तज्ज्ञानं न दर्शनं तस्मिन् । यस्मात् पुनः प्रत्यक्ष प्रेक्षते ततस्तेन तज्ज्ञानी ॥ ८२१ ॥ २ क. स. 'च म' । ३ क. ग. 'त्पत्तिसा'। • भण्यते, प्रज्ञापनायां मनःपर्यवज्ञानपश्यत्ता भणिता । तत एव पश्यस्यति सः, संदेहो हेतुना केन ? ॥८२२ ॥ PS Jan Educ tion For Personal and Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202