Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 194
________________ विशेषा० बृहद्वत्तिः । ॥३९२॥ द्रव्यार्थग्राहकत्वादित्यं मनःपर्यायज्ञानस्य प्रत्यक्षता युज्यते, न पुनरचक्षुर्दर्शनस्य, मतिभेदत्वेन तस्य परीक्षार्थग्राहकत्वात् । ततः प्रत्यक्षज्ञानित्वं मनःपर्यायज्ञानिनो विरुध्येत; इत्याशङ्कयाह- 'नाणं जईत्यादि' यदि मनःपर्यायज्ञानलक्षणं ज्ञानं प्रत्यक्षार्थग्राहकत्वात् प्रत्यक्षम् , न त्वचक्षुर्दर्शनलक्षणं दर्शनं प्रत्यक्षम् , परोक्षार्थग्राहकत्वेन परोक्षादित्वात् । तहिं हन्त ! तस्य मनःपर्यायज्ञानिनः प्रत्यक्षज्ञानितायां को दोषः- को विरोधः- न कश्चित् , भिन्नविषयत्वात् , अवधिज्ञानिनश्चक्षुर्दर्शना-चक्षुर्दर्शनवदिति । न ह्यवधिज्ञानिनश्चक्षुरचक्षुर्दर्शनाभ्यां परोक्षमर्थं पश्यतः प्रत्यक्षज्ञानितायाः कोऽपि विरोधः समापद्यते, तद्वदिहाऽपि । तस्माद् मनःपर्यायज्ञानी खज्ञानेन मनोद्रव्य-पर्यायान् जानाति, मानसेन त्वचक्षुर्दर्शनेन पश्यतीति स्थितम् ॥ ८१६ ॥ अन्ये तु 'पश्यति' इत्यन्यथा समर्थयन्ति, इति दर्शयति अन्नेऽवहिदसणओ वयंति न य तस्स तं सुए भणियं । न यमणपज्जवदसणमन्नं च चउप्पयाराओ॥८१७॥ ___ अन्ये त्ववधिदर्शनेनाऽसौ मनःपर्यायज्ञानी पश्यति, मनःपर्यायज्ञानेन तु जानातीति वदन्ति । एतच्चायुक्तमेव, इत्याहन च नैव तस्य मनःपर्यायज्ञानिनस्तदवधिदर्शनं श्रुतेऽभिहितम् । न हि मनःपर्यायज्ञानिनोऽवधिज्ञान-दर्शनाभ्यामवश्यमेव भवितव्यम् , अवधिमन्तरेणाऽपि मति-श्रुत-मनःपर्यायलक्षणज्ञानत्रयस्याऽऽगमे प्रतिपादितत्वात् तथा चाह-"मणपज्जवनाणलद्धीया णं भन्ते ! जीवा किं नाणी, अन्नाणी। गोयमा! नाणी, नो अन्नाणी । अत्थेगइया तिनाणी, अत्थेगइया चउनाणी । जे तिनाणी ते आभिणिबोहियसुय-मणपज्जवनाणी; जे चउनाणी ते आभिणिबोहिय-सुय-ओहि-मणपज्जवनाणी" | तदेवं मनःपर्यायज्ञानिनोऽवधिनियमस्याऽभावात् कथमवधिदर्शनेनाऽसौ पश्यतीत्युपपद्यते । अथैवं मन्यसे- किमेतैर्बहुभिः प्रलपितैः १, यथाऽवधेर्दर्शनम् , तथा मनःपर्यायस्यापि तद् भविष्यति, ततस्तेनाऽसौ पश्यति, इत्युपपत्स्यत एव; इत्याशङ्कयाह- 'न य मणेत्यादि न च नैव चतुष्पकाराचक्षुरादिदर्शनादन्यत् पञ्चमं मनःपर्यायदर्शनं श्रुते भणितम् , येन पश्यतीत्युपपत्स्यते । तथाचाह- "कैइविहे गं भंते ! दंसणे पण्णत्ते ? । गोयमा! चउबिहे, , अन्येऽवधिदर्शनतो वदन्ति न च तस्य तत् श्रुते भणितम् । न च मनःपर्यवदर्शनमन्यच्च चतुष्पकारात् ॥ १७ ॥ २ मनःपर्यवज्ञानलब्धिका भगवन् ! जीवाः किं शानिनः, अज्ञानिनः ? । गौतम ! ज्ञानिनः, नो अज्ञानिनः । सन्त्येके त्रिज्ञानाः, सन्त्येके चतुर्ज्ञानाः। ये विज्ञानास्ते आभिनियोधिक-धुत-मनःपर्यवज्ञानिनः ये चज्ञानास्ते भाभिनियोधिक-भ्रता-ऽवधि-मनःपर्यवशानिनः।। कतिविध भगवन् ! दर्शनं प्रशप्तम ।। गौतम ! चतुर्विधम् , तद्यथा- चक्षुर्दर्शनम् , अचक्षुर्दर्शनम् , अवधिदर्शनम् , केवलदर्शनम् । ९।। E Jan Education Internati For Don Pe Use Only SAMwww.janeltrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202