Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 201
________________ (ROO विशेषा० बृहद्वत्तिः । ॥३९ ॥ केवलज्ञानिनाम् ; दर्शनद्वारे-केवलदर्शनिनाम् । संयतद्वारे- संयवानाम् नोसंयता-ऽसंयतानां च; उपयोगद्वारे- साकारा-ऽनाकारोपयोगयो, आहारकद्वारे- आहारका-ऽनाहारकयोः; भाषकद्वारे- भाषका-ऽभाषकयोः परीत्तद्धारे- परीत्तानां, नोपरीत्ता-परीतानां च पर्याप्तद्वारे- पर्याप्तानां नोपर्याप्ता-ऽपर्याप्तानां च सूक्ष्मद्वारे-बादराणां, नोवादर-सूक्ष्माणां च संज्ञिद्वारे-नोसंझ्य-संज्ञिनाम् भव्यद्वारे- भव्यानां, नोभव्या-ऽभव्यानां च । चरमद्वारे- चरमाणां भवस्थकेवलिना, नोचरमा-ऽचरमाणां च सिद्धानां केवलज्ञान प्राप्यते । पूर्वप्रतिपन्न-प्रतिपद्यमानकयोजना तु स्वबुद्ध्या कर्तव्येति । द्रव्यप्रमाणद्वारे-प्रतिपद्यमानकानाश्रित्योत्कृष्टतोऽष्टोत्तरशतं केवलिनां प्राप्यते, पूर्वप्रतिपन्नास्तु जघन्यत उत्कृष्टतश्च कोटिपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धास्त्वनन्ताः । क्षेत्र-स्पर्शनाद्वारयोस्तु जघन्यतो लोकस्याऽसंख्येयभागे केवली लभ्यते, उत्कृष्टतस्तु सर्वलोके । कालद्वारे- साद्यपर्यवसितं कालं सर्वोऽपि केवली भवति । अन्तरं तु केवलज्ञानस्य नास्ति, उत्पन्नस्य प्रतिपाताऽभावात् । भागद्वारं मतिज्ञानवदिति । भावद्वारे- क्षायिक भावे केवलमवाप्यते । अल्प-बहुत्वद्वारे मतिज्ञानवद्वाच्यमिति ॥ तदेवं केवलज्ञानं समाप्तम् । ॥ तत्समाप्तौ च ज्ञानपञ्चकं समाप्तमिति ॥ ॥३९९॥ For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202