Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
रनन्तरं विपुलमतेरपि व्याख्यान कृतमित्यदोषः। 'विउलं वत्थुविसेसण ति' विपुलं वस्तुनो घटादविशेषणानां देश-क्षेत्र-कालादीनां मानं संख्यास्वरूपं तद्ग्राहिणी विपुलमतिः। षष्ठ-सप्तमाऽष्टमगाथाभिजवाचारणद्धिस्वरूपम् । नवम-दशमगाथाभ्यां तु विद्याचारणार्द्धस्वरूपम् । एकादशगाथयाऽऽशीविषर्दिस्वरूपं व्याख्यातम् । 'ते कम्म-जाईत्यादि' ते आशीविषाः कर्मभेदेन तिर्यगायनेकविधाः, जातिभेदेन तु वृश्चिक-मण्डूकादिचतुर्विधविकल्पाः। द्वादशगाथायां केवली चतुर्भेदः, कथम् ?, इत्याह- क्षायिकसम्यक्त्व-ज्ञान-दर्शनचारित्रभेदादिति । त्रयोदशगाथायां पूर्वार्धन चालना, उत्तरार्धेन तु प्रत्यवस्थानम् । तत्र मनःपर्यायज्ञानं केवलज्ञानं चोत्तरत्र स्वस्थान 1 एव वक्ष्यते, किमिहावधिज्ञानावसरे तद्ग्रहणम् ? इति चालनाकर्तुरभिप्रायः । आचार्यस्तु मन्यते- यथाऽवधिज्ञानावसरे ऋद्धिसाम्याच्छेपर्द्धिग्रहणम् । तथैवर्द्धिप्रस्तावाद् मनःपर्याय केवलयोरपीह ग्रहणं कृतमित्यदोष इति ॥ ७८१-७९३ ॥
अथ वासुदेवादीनां बलवर्णनाद्यतिशयं नियुक्तिकार एव प्रकटयतिसोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडम्मि ठियं संतं ॥ ७९४ ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । अँजिज्ज विलिंपिज्ज व महुमहणं ते न चाएंति ॥ ७९५ ॥ दो सोला बत्तीसा सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवट्टि अगडतडम्मि ठियं संतं ॥ ७९६ ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुजिज्ज विलिंपिज्ज व चक्कहरं ते न चाएंति ॥ ७९७ ॥
जं केसवस्स बलं तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा ॥७९८॥ - इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद् बलातिशयो वासुदेवस्य प्रदर्श्यते-षोडश राजसहस्राणि हस्त्य-श्व-रथ-पदाति-समन्वितानि शृङ्खलानिबद्धं 'अंछंति' देशीवचनादाकर्षन्ति वासुदेवं, अगडतटे कूपतटे स्थित सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन 'अंछमा
Dramaro
h
589
esitatus
, पोडश राजसहस्राणि सर्वबलेन तु शृङ्खलानिवद्धम् । आकर्षन्ति वासुदेवमवटतटे स्थितं सन्तम् ॥ ७९४ ॥
गृहीत्वा शालां स वामहस्तेनाऽऽकर्षताम् । भुञ्जीत विलिम्पत वा मधुमथनं ते न शक्नुवन्ति ॥ ७९५॥ द्वौ षोडशकी द्वात्रिंशत् सर्वबलेन तु शृङ्खलानिबद्धम् । आकर्षन्ति चक्रवर्तिनमवटतटे स्थितं सन्तम् ॥ ७९ ॥ गृहीत्वा शृङ्गलां स वामहस्तेनाऽऽकर्षताम् । भुञ्जीत विलिम्पेत वा चक्रधरं ते न शक्नुवन्ति ॥ ७९७ ॥ यत् केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततो बला बलवन्तोऽपरिमितबला जिनवरेन्द्राः ॥ ०९८ ॥ ..
॥३८३॥
For Post
ery
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202