Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥३८५॥
GOO
एवमेता अन्याश्च जीवानां शुभ-शुभतर-शुभतमपरिणामवशाद् बहुभकारा अपरिमितसंख्या लब्धयो भवन्ति । कथंभूताः', इत्याह- 'उदय त्ति' वैक्रिया-ऽऽहारकनामादिकर्मोदयसमुत्थास्तावद् वैक्रिया-ऽऽहारकशरीरकरणादिका लब्धयो भवन्ति । 'खय त्ति' दर्शनमोहादिक्षयसमुत्थास्तु क्षायिकसम्यक्त्व-क्षीणमोहत्व-सिद्धत्वादयः । 'खओवसमुत्ति' दान-लाभान्तरायादिकर्मक्षयोपशमसमुत्था अक्षीणमहानस्यादयः । तत्र येनाऽऽनीतं भैक्षं बहुभिरप्यन्यैर्भुक्तं न क्षीयते, किन्तु स्वयमेव भुक्तं निष्ठां याति तस्याऽक्षीणमहानंसीलब्धिः 'उवसय त्ति' दर्शनमोहाद्युपशमसमुत्या औपशमिकसम्यक्त्वो-पशान्तमोहत्वादिका लब्धयो भवन्ति ॥ ८०१ ॥
अथ मतान्तरं तन्निरासं च दर्शयितुमाह
केई भणंति वीसं लडीओ तं न जुज्जए जम्हा । लद्धि त्ति जो विसेसो अपरिमिया ते य जीवाणं ॥ ८०२॥ गणहर-तेया-हारय-पुलाय-वोमागमणलद्धीओ। एवं बहुगाओ वि य सुव्वंति न संगिहीयाओ ॥ ८०३ ॥ केचिदाचार्यदेश्यीया विंशतिसंख्यानियमिता एव लब्धीः माहुः, यतस्ते पठन्ति
" आमोसही य खेले जल्ल-विप्पे य होइ सव्वे य । कोढे य बीयबुद्धी पयाणुसारी य संमिन्ने ॥१॥
रिजुमइ-विउल-क्खीरमहु-अक्खीणे विउव्वि-चरणे य । विजाहर-अरहंता चक्की बल-वासु वीस इमा ॥२॥" खीरमह ति एकैवेयं क्षीरमध्वाश्रयलब्धिः। 'चरणे य त्ति' चारैणलब्धिः।।
" भवसिद्धियाणमेया वीसं पि हवंति एत्य लद्धीओ । भवसिद्धियाण महिलाण जत्तिया जा तयं वोच्छं ॥ ३ ॥ जिण-बल-चक्की-केसव-संभिन्न-जंघचरण-पुब्वे य । भणिया वि इत्थीए एयाओ न सत्त लद्धीओ ॥१॥"
१ क.ग. 'नश्याद' । २ क.ग. 'नशील' । ३ केचिद् भणति विंशतिं लब्धीस्तद् न युज्यते यस्मात् । लब्धिरिति यो विशेषोऽपरिमितास्ते च जविानाम् ॥ ८०२॥
गणधर तैजसा-हारक-पुलाक-व्योमादिगमनलब्धयः । एवं बहुका अपि च श्रूयन्ते न संगृहीताः ॥ ८०३ ॥ ४ क.ग. 'इया ग'। ५ क.ग. 'या उ' । ६ आमौंषधिश्च श्लेष्मा मल-विमुषौ च भवति सर्वश्च । कोष्ठश्च बीजबुद्धिः पदानुसारी च संभिन्नः ॥१॥
ऋजुमति-विपुल-क्षीरमधु-अक्षीणा वैक्रिय-चारणौ च । विद्याधरा-ऽर्हन्तौ चक्री बल-वासू (सुदेवी)विंशतिरिमाः ॥२॥ ७ क.ग. 'रणा ल'। ८ भवसिद्धिकानामेता विंशतिरपि भवन्त्यत्र लब्धयः । भवसिद्धिकानां महिलानां यावत्यो यास्तद् वक्ष्ये ॥३॥
जिन-बल-चकि-केशव-संभिन्न-जवाचरण-पूर्वाश्च । भणिता अपि खिया एता न सप्त लब्धयः ॥ ४॥
RO
॥३८५॥
Jan Education Internation
For Personal and Private Use Only
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202