Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
नित
॥३८४॥
णाणं ति आकर्षतां भुञ्जीत विलिम्पेत वा हृष्टः सन्नवज्ञयेति ।मधुमथनं ते राजानः सबला अपि न शक्नुवन्ति 'आक्रष्टुम्' इति वाक्यशेषः। चक्रवर्तिनस्त्विदं बलं, तद्यथा- द्वौ षोडशको द्वात्रिंशत् । तत्र 'द्वात्रिंशत्' इत्येतावत्येव वाच्ये 'द्वौ षोडशको' इत्यभिधानं चक्रवर्तिनो वासुदेवाद् द्विगुणर्द्धिख्यापनार्थम् । 'राजसहस्राणि' इति गम्यते । समस्तबलेन सह शृङ्खलानिवद्धमाकर्षन्ति चक्रवर्तिनमगडतटे स्थितं सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेनाऽऽकर्षतां भुञ्जीत विलिम्पेत वा; चक्रधरं ते न शक्नुवन्ति 'आक्रष्टुं' इति वाक्यशेषः! यञ्च केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततः शेषलोकबलाद् बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयादपरिमितमनन्तं बलं येषां तेऽपरिमितबला जिनवरेन्द्राः ॥ इति नियुक्तिगाथापचकार्थः ॥ ७९४ ॥ ७९५ ॥ ७९६ ॥ ७९७॥७९८॥ तदेवमभिहिताः शेषर्द्धयः । एताश्चाऽन्यासामपि क्षीर-मधु-सर्पिराश्रवादिकानामृद्धीनामुपलक्षणमिति । अत एवाह भाष्यकार:
खीर-महु-सप्पिसाओवमाउवयणा तयासवा होति । कोट्ठयधन्नसुनिग्गलसुत्तत्था कोढबुद्धीया ॥ ७९९ ॥ जो सुत्तपएण बहुं सुयमणुधावइ पयाणुसारी सो । जो अत्थपएणत्थं अणुसरइ स बीयबुद्धी उ॥८००॥
चीर्णग्रन्थिपर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसंबन्धिनो गोलक्षस्यार्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः संबन्धि यत् क्षीरं तदिह गृह्यते । मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यम् । एवं सर्पिरपि किमप्यतिशायि द्रष्टव्यम् । एवंभूतक्षीर-मधुसर्पिषां य आस्वादस्तदुपमाप्यायकवचना ये तीर्थकर-गणधरादयस्ते तदाश्रवा मन्तव्याः, क्षीर-मधु-सर्पिराश्रवा इत्यर्थः, वचनेन यथोक्तक्षीरादीनिव ते सवन्तः सकलजनं सुखयन्ति । मकारस्य दीर्घत्वम् , उकारश्चाऽलाक्षणिकः । तथा, कोष्ठकधान्यवत् सुनिर्गलो- अविस्मृतत्वाचिरस्थायिनौ सूत्रार्थों येषां ते कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्ठबुद्धयः । यस्त्वध्यापकादेकेनापि सूत्रपदेनाऽधीतेन बढपि सूत्रं ही स्वप्रज्ञयाऽभ्यूह्य गृह्णाति स पदानुसारिलब्धिः । “उत्पाद-व्यय-ध्रौव्ययुक्तं सत्" इत्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाऽधिगतेन योऽन्यं प्रभूतमप्यर्थमनुसरति स बीजबुद्धिरिति ॥७९९॥८००॥
किमेता एव लब्धयः ?, इत्याहउदय-स्खय-पखओवसमो-वसमसमुत्था बहुप्पगाराओ। एवं परिणामवसा लडीओ होति जीवाणं ॥८.१॥
क्षीर-मधु-सर्पिःस्वादोपमवचनास्तदाश्रवा भवन्ति । कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्टबुद्धयः ॥ ७९९ ॥ यः सूत्रपदेन बहु श्रुतमनुधावति पदानुसारी सः । योऽर्थपदेनाऽर्थमनुसरति स बीजबुद्धिस्तु ॥ ८००॥ २ क.म. 'पर्णिका'। २ उदय-क्षय-क्षयोपशमो-पशमसमुत्थी बहुप्रकाराः । एवं परिणामवशालन्धयो भवन्ति जीवानाम् ॥ ८.1॥
॥३८४॥
HG12NCAPARAPARA
For Personal and
Use Oy
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202