Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 179
________________ natara यानि वा योजनानि प्रत्येकं भवतीत्यर्थः । कया सह ?, इत्याह- 'पुरुषावाधया' इत्येवं सहार्थतृतीयया पुरुषावाधापदमत्रापि योज्यते; विशेषा० न केवलमवधिः संख्येयानि, असंख्येयानि वा योजनानि भवति, किं तर्हि , पुरुषाद्यन्तरालरूपा बाधा साऽप्येतावन्माना भवती त्यर्थः । इदं चान्तरमसंबद्ध एवाऽवधौ भवति, न तु संबद्ध, तत्र संबद्धत्वेनैव तदसंभवात् । इह चासंबद्धेऽवधावन्तरे चं चतुर्भङ्गिका॥३७७॥ संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरमसंख्येयोऽवधिः, असंख्येयमन्तरं संख्येयोऽवधिः, असंख्येयमन्तरमसंख्येयोऽवधिः EP इत्येवं चत्वारोऽपि भङ्गकाः संभवन्ति । संबद्धे त्ववधौ विकल्पाभावः, तदुत्थानहेतोरन्तरलक्षणस्य द्वितीयपदस्य तत्राभावादिति । अयं चावधिलोकेऽलोके च संबद्धोऽपि भवति, इत्याह- 'लोगमलोगे य संबद्धो ति' इह लोकशब्देन लोकान्तो गृह्यते । अत्रापि च भङ्गचतुष्टयम्- तत्र यो लोकप्रमाणावधिः स पुरुषे संबद्धो भवति, लोकान्ते च ; यस्तु लोकदेशवर्ती अभ्यन्तरावधिः स पुरुषे संबद्धो न लोकान्ते लोकान्ते संबद्धो न पुरुष इति शून्योऽयं भङ्गः, यो हि लोकान्ते संबद्धः स पुरुषे नियमात् संबद्ध एव भवति, न त्वसंबद्ध इत्येतद्भङ्गकासंभवः, न लोकान्ते नापि पुरुष संबद्धो बाह्यावधिः, यस्त्वलोके संबद्धः स पुरुषे संबद्ध एव भवतीति तत्र भङ्गकाभावः ।। इति नियुक्तिगाथार्थः ।। ७७२ ।। अथ भाष्यम् ओही पुरिसे कोई संबद्धो जह पभा व दीवम्मि । दूरधयारदीवयदरिसणमिव कोइ विच्छिण्णो ॥७७३॥ *संखिज्जमसेंखिजं देहाओ खित्तमंतरं काउं । संखेज्जा-ऽसंखेजं पेच्छइ तदंतरमबाहा ॥ ७७४ ॥ संबडा-ऽसंबद्धो नर-लोयंतेसु होइ चउभंगो । संबद्धो उ अलोए नियमा पुरिसे वि संबद्धो ॥ ७७५ ॥ तिम्रोऽपि गतार्थाः, नवरं दुरान्धकारे भित्यादिप्रतिफलितदीपकस्य दर्शनं तदिव विच्छिन्नः । 'तदंतरमबाह त्ति' तयोर्देहा-ऽवधिप्रकाश्यक्षेत्रयोरन्तरं तदबाधोच्यत इति ।। ७७३ ।। ७७४ ॥ ७७५ ॥ ॥ अवसित क्षेत्रद्वारम् ।। १ क.ग. वधेः सं'। २ क.ग. वन्ति किं' । ३ अवधिः पुरुष कश्चित् संबद्धो यथा प्रभेव दीपे । दूरान्धकारदीपकदर्शनमिव कश्चिद् विच्छिनः ॥ ७॥ ॥ F संख्येयमसंख्येयं देहात् क्षेत्रमन्तरं कृत्वा । संख्येया-ऽसंख्येयं प्रेक्षते तदन्तरमबाधा ॥ ७७४ ॥ संबद्धाऽसंबद्धो नर-लोकान्तयोर्भवति चतुर्भङ्गः । संवत्स्व लोके नियमात् पुरुषेऽपि संबद्धः ॥७७५।। ४ घ.छ. 'संखेज'। ॥३७७॥ १८ Jan Educ a tion For Personal and Private Use Only HAMww.janeitrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202