Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
सि
॥३७९॥
इत्याह- 'ते च्चिय पुव्वपवण्णेत्यादि' य एव मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ता अवधिज्ञानस्यापि त एव द्रष्टव्याः। किं सर्वथा ?, न, इत्याह'वियलेत्यादि' विकलेन्द्रियान् असंज्ञिपश्चेन्द्रियांश्च मुक्त्वेत्यर्थः । एते हि सास्वादनसम्यग्दृष्टयो मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ताः, अवधेस्तु न प्रतिपद्यमानका नापि पूर्वप्रतिपन्ना भवन्तीति भावः ॥ इति गाथाद्वयार्थः ॥ ७७७ ॥ ७७८ ।।
॥ अवसितं गत्यादिद्वारम् ।। अथ शेषींवर्णयितुमाह
आमोसहि विप्पोसहि खेलोसहि जल्लमोसहि चेव । संभिन्नसोय उजुमइ सव्वोसहि चेव बोधवा ॥७७९॥
चारण आसीविसा केवली य मणनाणिणो य पुग्वधरा । अरहंत-चक्कवट्टी बलदेवा वासुदेवा य ॥७८०॥
तत्राऽऽमर्षणमामर्षः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्याऽसावामौषधिः, करादिसंस्पर्शमात्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवाऽऽमर्गौषधिरित्यर्थः । 'विप्पोसहि त्ति' मूत्र-पुरीषयोरवयवो विघुडुच्यते । अन्ये त्वाहुः- विड् उच्चारः, प्रेति प्रस्रवणम् । खेलः श्लेष्मा, जल्लो मलः, औषधिशब्देन समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तल्लब्धिमतां द्रष्टव्याः । इह चात्मानं परं वा रोगापनयनबुद्ध्या विडादिभिः स्पृशतः साधोस्तद्रोगापगमो द्रष्टव्यः, प्रागुक्ताऽऽमर्षलब्धिरपि शरीरैकदेशे सर्वस्मिन् वा शरीरे समुत्पद्यते, तेन चात्मानं परं वा व्याध्यपगमबुद्ध्या परामशतस्तदपगमो द्रष्टव्यः। 'संभिन्नसोय त्ति' यः सर्वतः सर्वैरपि शरीरदेशैः शृणोति स संभिन्न श्रोताः। अथवा, श्रोतांसीन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैर्यस्य स तथा, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान्म विषयान् यो मुणत्यवगच्छति स संभिन्नश्रोता इत्यर्थः । अथवा, श्रोतांसीन्द्रियाणि संभिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुःकार्यकारित्वाच्चक्षुरूपतामापन्नम् , चक्षुरपि श्रोत्रकार्यकारित्वात् तद्रूपतामापन्नम् , इत्येवं संभिन्नानि श्रोतांसि सर्वाण्यपि परस्परणेन्द्रियाणि यस्यासौ संभिन्नश्रोता इति भावः, इत्यत्रापि स एवाऽर्थः । अथवा, द्वादशयोजनस्य चक्रवर्तिकटकस्य युगपद् ब्रुवाणस्य, तत्तूर्यसंघातस्य वा युगपदास्फाल्यमानस्य संभिन्नाँल्लक्षणतो विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान् शङ्ख-भेरी-माणक-ढक्कादितूर्यसमुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स संभिन्नश्रोताः । एवं च संभिन्नश्रोतृत्वलब्धिरपि
, आमोंषधिर्विप्रौषधिः श्लेष्मीपधिर्मलौषधिश्चैव । संभिन्न श्रोता जुमतिः सर्वोपधिश्व बोद्धव्यः ॥ ७९ ॥ २ चारणा माशीविषा केवलिनश्च मनोज्ञानिनश्च पूर्वधराः । अर्ह-चक्रवर्तिनो बलदेवा वासुदेवाश्च ॥ ७० ॥
३७९॥
SARALEKHOREHE
Jan Education Internatio
For Personal and Private Use Only
andww.jaineltrary.org
Loading... Page Navigation 1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202