SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ विशेषा सि ॥३७९॥ इत्याह- 'ते च्चिय पुव्वपवण्णेत्यादि' य एव मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ता अवधिज्ञानस्यापि त एव द्रष्टव्याः। किं सर्वथा ?, न, इत्याह'वियलेत्यादि' विकलेन्द्रियान् असंज्ञिपश्चेन्द्रियांश्च मुक्त्वेत्यर्थः । एते हि सास्वादनसम्यग्दृष्टयो मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ताः, अवधेस्तु न प्रतिपद्यमानका नापि पूर्वप्रतिपन्ना भवन्तीति भावः ॥ इति गाथाद्वयार्थः ॥ ७७७ ॥ ७७८ ।। ॥ अवसितं गत्यादिद्वारम् ।। अथ शेषींवर्णयितुमाह आमोसहि विप्पोसहि खेलोसहि जल्लमोसहि चेव । संभिन्नसोय उजुमइ सव्वोसहि चेव बोधवा ॥७७९॥ चारण आसीविसा केवली य मणनाणिणो य पुग्वधरा । अरहंत-चक्कवट्टी बलदेवा वासुदेवा य ॥७८०॥ तत्राऽऽमर्षणमामर्षः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्याऽसावामौषधिः, करादिसंस्पर्शमात्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवाऽऽमर्गौषधिरित्यर्थः । 'विप्पोसहि त्ति' मूत्र-पुरीषयोरवयवो विघुडुच्यते । अन्ये त्वाहुः- विड् उच्चारः, प्रेति प्रस्रवणम् । खेलः श्लेष्मा, जल्लो मलः, औषधिशब्देन समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तल्लब्धिमतां द्रष्टव्याः । इह चात्मानं परं वा रोगापनयनबुद्ध्या विडादिभिः स्पृशतः साधोस्तद्रोगापगमो द्रष्टव्यः, प्रागुक्ताऽऽमर्षलब्धिरपि शरीरैकदेशे सर्वस्मिन् वा शरीरे समुत्पद्यते, तेन चात्मानं परं वा व्याध्यपगमबुद्ध्या परामशतस्तदपगमो द्रष्टव्यः। 'संभिन्नसोय त्ति' यः सर्वतः सर्वैरपि शरीरदेशैः शृणोति स संभिन्न श्रोताः। अथवा, श्रोतांसीन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैर्यस्य स तथा, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान्म विषयान् यो मुणत्यवगच्छति स संभिन्नश्रोता इत्यर्थः । अथवा, श्रोतांसीन्द्रियाणि संभिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुःकार्यकारित्वाच्चक्षुरूपतामापन्नम् , चक्षुरपि श्रोत्रकार्यकारित्वात् तद्रूपतामापन्नम् , इत्येवं संभिन्नानि श्रोतांसि सर्वाण्यपि परस्परणेन्द्रियाणि यस्यासौ संभिन्नश्रोता इति भावः, इत्यत्रापि स एवाऽर्थः । अथवा, द्वादशयोजनस्य चक्रवर्तिकटकस्य युगपद् ब्रुवाणस्य, तत्तूर्यसंघातस्य वा युगपदास्फाल्यमानस्य संभिन्नाँल्लक्षणतो विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान् शङ्ख-भेरी-माणक-ढक्कादितूर्यसमुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स संभिन्नश्रोताः । एवं च संभिन्नश्रोतृत्वलब्धिरपि , आमोंषधिर्विप्रौषधिः श्लेष्मीपधिर्मलौषधिश्चैव । संभिन्न श्रोता जुमतिः सर्वोपधिश्व बोद्धव्यः ॥ ७९ ॥ २ चारणा माशीविषा केवलिनश्च मनोज्ञानिनश्च पूर्वधराः । अर्ह-चक्रवर्तिनो बलदेवा वासुदेवाश्च ॥ ७० ॥ ३७९॥ SARALEKHOREHE Jan Education Internatio For Personal and Private Use Only andww.jaineltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy