________________
Rao
विशेषा० ॥३८॥
ऋद्धिरेवेति । 'उजुमइ त्ति' ऋची पायो घटादिसामान्यमात्रग्राहिणी मतिः ऋजुमतिः, विपुलमत्यपेक्षया किश्चिदविशुद्धतरं मनःपर्याय ज्ञानमेव । 'सव्वोसहि त्ति' सर्व एव विड्-मूत्र-केश-नखादयोऽवयवाः सुरभयो व्याध्यपनयनसमर्थत्वादौषधयो यस्य स सर्वौषधिः अथवा, सर्वा आमोषध्यादिका औषधयो यस्यैकस्यापि साधोः स तथा । एवमेते ऋद्धिविशेषा बोद्धव्याः।
तथा 'चारण त्ति' अतिशयवद्गमना-ऽऽगमनरूपाच्चारणाच्चारणाः सातिशयगमना-ऽऽगमनलब्धिसंपन्नाः साधुविशेषा एव । ते च द्विविधाः- विद्याचारणाः, जङ्घाचारणाश्च । तत्र विद्या विवक्षितः कोऽप्यागमस्तत्प्रधानश्चारणो विद्याचारणः । अस्य च यथाविधि सातिशयषष्ठलक्षणेन तपसा सर्वदैव तपस्यतो विद्याचरणलब्धिरुत्पद्यते, तया चासावित एकेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, चैत्यानि च तत्र वन्दते । ततो द्वितीयेनोत्पातेन नन्दीश्वरनामानमष्टमद्वीपं गत्वा चैत्यानि वन्दते । तत एकेनोत्पातेन प्रतिनिवृत्य यतः स्थानाद् गतः पुनस्तत्रागच्छतीति । एष तावत् तस्य तिर्यग्गतिविषयः। ऊर्ध्व त्वित एकेनोत्पातेन नन्दनवनं गत्वा तत्र चैत्यानि वन्दते, ततो द्वितीयेनोत्पातेन मेरुशिखरस्थं पण्डकवनं गत्वा चैत्यानि वन्दते । ततश्चैकेनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद् गतः पुनस्तत्रा-14 ऽऽगच्छतीति ।
लूतातन्तुनिवर्तितपुटकतन्तून् रविकरान् वा निां कृत्वा जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः । अस्य च यथाविधि सातिशयाऽष्टमलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणलब्धिरुत्पद्यते । तया चासावित एकनोत्पातेन त्रयोदशं रुचकवरद्वीप गत्वा तत्र चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दीश्वरमागत्य तत्र चैत्यानि वन्दते । ततस्तृतीयेनोत्पातेन यतः स्थानाद् गतस्तत्रागच्छतीति । एषोऽस्य तिर्यग्गतिविषयः । ऊर्ध्वं त्वित एकेनोत्पातेन पण्डकवनं गत्वा चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दनवने चैत्यानि वन्दित्वा तृतीयोत्पातेन यतः स्थानाद् गतस्तत्राऽऽगच्छतीति । _ 'आसीविस त्ति' आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च द्विविधाः-जातितः, कर्मतश्च। तत्र जातितो वृश्चिक-मण्डूकसर्प-मनुष्यजातयः, क्रमेण बहु-बहुतर-बहुतमविषाः- वृश्चिकविषं पुत्कृष्टतोऽधभरतक्षेत्रप्रमाणं शरीरं व्यामोतीति, मण्डूकविषं तु भतरक्षेत्रप्रमाणम् , भुजङ्गमविषं तु जम्बूद्वीपप्रमाणम् , मनुष्यविषं तु समयक्षत्रप्रमाणं वपुर्व्यानोति । कर्मतस्तु पञ्चन्द्रियतिर्यश्चः,मनुष्याः, देवाश्चाऽऽ सहस्रारादिति । एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिक-भुजङ्गादिसाध्यकमक्रियां कुर्वन्ति-शापोंदिना परं व्यापादयन्तीत्यर्थः । देवाश्चाऽपर्याप्तावस्थायां तच्छक्तिमन्तो द्रष्टव्याः; ते हि पूर्व मनुष्यभवे समुपार्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना आपर्याप्तावस्थायां प्राग्भविकाऽऽशीविषलब्धिमन्तो मन्तव्याः; ततः परं तल्लब्धिनिवृत्तेः। पर्याप्ता अपि देवाः शापादिना परं विनाशयन्ति, किन्तु लब्धिव्यपदेशस्तदा न प्रवर्तत इति ।
BREADERSHINISTRATEGORNO
ASIAJARATARATRAaroKOOOKICICE
॥३८०॥
SHOCOCIEOS
Jan Education Internat
For Personal and Private Use Only
Alwww.jaineltrary.org