________________
विशेषा०
॥३७८॥
गतिद्वारं विभणिषुराह
गइ-नेरइयाईया हेट्ठा जह वणिया तहेव इहं । इड्ढी एसा वणिजइ त्ति तो सेसियाओ वि ॥७७६॥
गतिर्नरकगत्यादिका, आदिशब्दादपरोऽपीन्द्रियादिद्वारकलापः माझतिपादितस्वरूपोऽत्र परिगृह्यते । ततश्च नारकादिगत्यादिद्वाराणि यथाऽधस्तात् पूर्व मतिज्ञानप्ररूपणाप्रस्तावे 'गइ-इंदिए य काए जोए वेए कसाय-लेसासु, सम्मत्त-नाण-' इत्यादिना, तथा "संतपयपरूवणया दवपमाणं च' इत्यादिना च प्रतिपादितानि तथहाप्यवधिषरूपणायां वक्तव्यानि, यस्तु विशेषस्तं भाष्यकारः स्वयमेव वक्ष्यति । एषा चावधिज्ञानलक्षणा ऋद्धिः सिद्धान्ते वर्ण्यते, इत्यतोऽनेन संबन्धेन शेषा अप्यामषिध्यादिका ऋद्धयोत्र वर्ण्यन्ते ॥ इति नियुक्तिगाथार्थः ॥ ७७६ ॥ ___ अथ गत्यादिद्वारेषु चिन्त्यमानस्याऽवधिज्ञानस्य मतिज्ञानाद् यो विशेषस्तं भाष्यकारः प्राह
जे पडिवजंति मइं तेऽवहिनाणं पि समहिआ अण्णे । वेय-कसायाईया मणपजवनाणिणो चेव ॥७७७॥ सम्मा सुर-नेरइयाऽणाहारा जे य होंतिपज्जत्ता । ते चिय पुव्वपवण्णा वियलाऽसण्णी य मोत्तूणं ॥७७८॥
ये मतिज्ञानस्य प्रतिपत्तारः प्रागुक्ताः, इहाऽवधिज्ञानस्याऽपि प्रतिपत्तारस्त एव द्रष्टव्याः, केवलमत्राधिका अन्येऽपि केचित् । तेऽवगन्तव्याः। तद्यथा- 'वेय-कसायाईय त्ति' वेदातीताः कषायातीताश्च- अवेदका अकषायिणश्चेत्यर्थः, तथा, मनःपर्यायज्ञानिनश्च, इत्येते मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ताः, इह त्ववधेरमी प्रतिपत्तारोऽपि भवन्ति; यतः श्रेणिद्वये वर्तमानानामवेदकानामकषायाणां च केषांचिदवधिज्ञानमुत्पद्यते, येषां चानुत्पन्नावधिज्ञानानां मति-श्रुतचारित्रवतां प्रथममेव मनःपर्यायज्ञानमुत्पद्यते, ते मनःपर्यायज्ञानिनोऽपि केचित् पश्चादवधिज्ञानस्य प्रतिपत्तारो भवन्ति । अपरं च, अनाहारका अपर्याप्तकाश्च मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ता न तु प्रतिपद्यमानकाः, इह तु येअतिपतितसम्यक्त्वास्तिर्यङ्-मनुष्येभ्यो देव-नारका जायन्ते तेऽवधिज्ञानस्य प्रतिपद्यमानका अपि प्राप्यन्त इत्याह- सम्मा सुर-नेरइयाऽणाहारा जे य होतिषजत्त त्ति । ननूक्तः प्रतिपद्यमानकेषु विशेषः, पूर्वप्रतिपन्नेषु तु का वार्ता !,
, गति-नैरयिकादिका अधस्ताद् यथा वर्णितास्तवेह । ऋद्धिरेषा वर्ण्यत इति ततः शेषिका अपि ॥ ७७६ ॥ २ गाथा ४०९ । ३ गाथा ४०६ । ४ ये प्रतिपद्यन्ते मतिं तेऽवधिज्ञानमपि समधिका अन्ये । वेद-कषायातीता मनःपर्यवज्ञानिनव ॥ ७७७ ॥ . सम्पक्विनः सुर-नैरयिका अनाहारा ये च भवन्त्यपर्याप्ताः । त एवं पूर्वप्रपन्ना विकला-संज्ञिनश्च मुक्त्वा ॥ ७७८ ॥
॥३७८॥
For Personal and
Use Only