Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
राकमकरसाहार
विशेषा०
॥३७५॥
बिहार
PLOOSEBARE
द्विविधो बाह्यावधिः फडकावधिः, असंबद्धवलयाकारक्षेत्रप्रकाशकावधिश्चेत्यर्थः, तद्वान् साध्वादिरवध्युपलब्धक्षेत्रस्यान्तःस्थितोऽपि न सर्वतः पश्यति, अन्तरालादर्शनात् । अतस्तव्यवच्छेदार्थ कर्तव्यं 'पश्यन्ति सर्वतः' इति । आइ- नन्वयमसंततदिक्कावधिरवाद्यावधिरेव न भवति, बाह्यावधित्वेनैव प्राक् प्रतिपादितत्वात् , तत् किमेतब्यवच्छेदपरेण 'पासंति' इत्याद्युपादानेन । सत्यम् , समयपरिभाषितवाद्यावधित्वमत्र नास्ति, लोकरूढं त्ववधिप्रकाशितक्षेत्रमध्यवर्तित्वमात्रमत्रापि विद्यते, इत्येतद्व्यवच्छेदार्थ 'पासंति' इत्यादि स्थितम् । इत्यलं विस्तरेणेति ॥७६८॥
अथ द्वितीयव्याख्यानं, तत्र प्रेर्य चाह
'निययावहिणो अभितर त्ति वा संसयावणोयत्यं । तो सव्वओऽभिहाणं होउ किमभिंतरग्गहणं ॥७६९॥
'वा' इत्यथवार्थः, स च व्याख्यानान्तरसूचकः । तत्र नारकादयोऽवधेरबाह्या अभ्यन्तरा भवन्तीति कोऽर्थः ?, इत्याह-नियतावघयो नियमनैषामवधिर्भवत्येवेति । तर्हि 'पासंति' इत्यादि किमर्थम् ?, इत्याह- 'संसयावणोयत्यं ति' 'किमते देशतः पश्यन्ति, आहोस्वित् सर्वतः' इत्येवंभूतसंशयापनोदार्थ 'पश्यन्ति सर्वतः खलु' इति वाक्यशेषः । यद्येवम् , ततः संशयापनोदार्थ सर्वतोऽभिधानमेवाऽस्तु, किमभ्यन्तरग्रहणेन ? इति ॥ ७६९ ॥
अत्रोत्तरमाह
अभिंतर ति तेणं निययावहिणोऽवसेसया भइया। भवपच्च याइवयसा सिद्धे कालस्स नियमोऽयं ॥७७०॥
यदि सर्वतोग्रहणेन नारकादीनां देशदर्शनं निराकृत्य संशयो निरस्त इति ब्रूषे, तेन तर्हि भोः प्रेरक ! 'अभ्यन्तरा अबाह्या' इत्यनेन नियतावधयो नियमेनाऽवधिमन्तो नारक-देव-तीर्थकराः, अवशेषास्तु तिर्यग-मनुष्या भजनीयाः- अवधियुक्तास्तद्रहिता वा भवन्तीति प्रतिपादितं द्रष्टव्यम् । सर्वग्रहणेन हि सर्वदेशदर्शनविषय एव संदेहो निवर्त्यते, नियतावधित्वं पुनरमीषां न लभ्यते । अतस्तत्प्रतिपादनार्थम् ,'अवधेरवाह्या भवन्ति' इत्येतद् वचनमिति भावः । तत्रैतत् स्यात् “भवप्रत्ययो नारक देवानाम्" इत्यादिवचनात् , , यथा “तीहिं नाणेहिं समग्गा तित्थयरा जाव होति गिहवासे” इत्यादिवचनाच्च सिद्धमेव नारक-देव-तीर्थकराणां नियतावधित्वम् । तकिनियतावधयोऽभ्यन्तरा इति वा संशयापनोदार्थम् । ततः सर्वतोऽभिधानं भवतु किमभ्यन्तरग्रहणम् ॥ ०६९ ॥
॥३७५॥ २ अभ्यन्तरा इति तेन नियतावधयोऽवशेषका भाज्याः । भवप्रत्ययादिवचसा सिद्धे कालस्य नियमोश्यम् ॥ ७७० ॥ ३ तत्वार्थसूत्रे १,२२ । । त्रीभिर्जानैः समनास्तीर्थकरा यावद् भवन्ति गृहवासे ।
GoicroOOS
For Peso
Private Use Only
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202