Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
SOCIA
विशेषा०
बृहदत्तिः ।
॥३७४॥
नारकाः, देवाः, तीर्थङ्कराचावधिज्ञानस्याऽवाद्या भवन्ति, अवध्युपलभ्यस्य क्षेत्रस्यान्तर्वर्तन्ते, अभ्यन्तरवर्तिन एव भवन्तीत्यर्थः । अत एवाऽवाह्यावधय एवैते प्रतिपाद्यन्ते, अवधिप्रकाशितक्षेत्रस्य प्रदीपा इव निजनिजप्रभापटलस्य नैते बहिर्भवन्तीत्यर्थः । तथाऽवधिना पश्यन्त्यवलोकयन्ति, खलुशब्दस्याऽवधारणार्थत्वात् सर्वत एव सर्वास्खेव दिक्षु विदिक्षु च, न तु देशत इत्यर्थः। शेषास्तिर्यग्-मनुष्या | देशेनेत्येकदेशेन पश्यन्ति । तत्र वाक्यावधारणविधेरिष्टतः प्रवृत्तेः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति द्रष्टव्यम् , शेषास्तिर्यग्-मनुष्याः सर्वतो देशतश्च पश्यन्तीति भावः । अथवा पूर्वार्धमन्यथा व्याख्यायते- नारक-देव-तीर्थङ्करा अवधेरबाह्या भवन्तीति कोऽर्थः?- अवधिज्ञानवन्त एवाऽमी भवन्ति, अवधिज्ञानं नियमेन तेषां भवतीत्यर्थः । तत्र किममी तेनाऽवधिना सर्वतः पश्यन्ति, देशतो वा ?, इति संशये सत्याह- 'पासंति' इत्यायुत्तरार्धम् । अस्य व्याख्या तथैव ॥ इति नियुक्तिगाथार्थः ॥ ७६६ ॥
अथ प्रथमं व्याख्यानं तावद् भाष्यकारोऽप्याह
ओहिणाणक्खेत्तेभंतरगा होंति नारयाईया । सव्वदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो ॥ ७६७ ॥ उक्ताथैव ॥ ७६७ ॥
चालना-प्रत्यवस्थाने पाहअभिंतर त्ति भणिए भण्णइ पासंति सव्वओ कीस ? । ओयइ जमसंतयदिसो अंतो वि ठिओन सव्वत्तो ॥७६८॥
नववधेरबाह्या भवन्ति, इत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्त इति प्रथमपक्षे व्याख्यातम् । एवं चोक्ते सति 'पश्यन्ति सर्वतः' इति किमर्थ भण्यते ?; ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते, ते सर्वतः पश्यन्त्येव, इति गतार्थत्वादतिरिच्यत एवेदमिति पराभिप्रायः । अत्र मूरिराह- 'ओयईत्यादि' संतता निरन्तरालाः सर्वा दिग्-विदिग्लक्षणा दिशः प्रकाशविषयभूता यस्याऽवधेरसौ संततदिकोऽवधिरवाह्यावधिरित्यर्थः, न विद्यते संततदिक्कोऽवधिर्यस्याऽसावसंततदिकोऽवधिमान् बाह्यावधियुक्तःसाध्वादिरित्यर्थः । अयं यस्माद् 'न ओयइ त्ति' न पश्यति, कथम् ?, सर्वतः । कथंभूतः सन् ?, इत्याह- अवधिद्योतितक्षेत्रस्यान्तर्मध्येऽपि स्थितः, तस्मात् कर्तव्यं 'पासंति सबओ खलु' इति । इदमुक्तं भवति- 'फंडोही वाऽहवाऽसंबद्धो' इत्यनेन ग्रन्थेन यः प्राक् प्रतिपादितो १ अवधिज्ञानक्षेत्राभ्यन्तरका भवन्ति नारकादिकाः । सर्वदिकोऽवधिविषयस्तेषां दीपप्रभौपम्यः ॥ ७६७ ॥ २ क.ग. 'त्तम्भित' । ३ अभ्यन्तर इति भणिते भण्यते पश्यन्ति सर्वतः कस्मात् । पश्यति यदसंततदिकोऽन्तरपि स्थितो न सर्वतः ॥७६६॥ ४ क.ग. 'किंभू'। ५ गाथा ७६६।६ गाथा ७४९॥
॥३७॥
SITESTATISTENSION
PARIRADIOHINDotars
Jan Education Intemat
For Don Penny
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202