SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ SOCIA विशेषा० बृहदत्तिः । ॥३७४॥ नारकाः, देवाः, तीर्थङ्कराचावधिज्ञानस्याऽवाद्या भवन्ति, अवध्युपलभ्यस्य क्षेत्रस्यान्तर्वर्तन्ते, अभ्यन्तरवर्तिन एव भवन्तीत्यर्थः । अत एवाऽवाह्यावधय एवैते प्रतिपाद्यन्ते, अवधिप्रकाशितक्षेत्रस्य प्रदीपा इव निजनिजप्रभापटलस्य नैते बहिर्भवन्तीत्यर्थः । तथाऽवधिना पश्यन्त्यवलोकयन्ति, खलुशब्दस्याऽवधारणार्थत्वात् सर्वत एव सर्वास्खेव दिक्षु विदिक्षु च, न तु देशत इत्यर्थः। शेषास्तिर्यग्-मनुष्या | देशेनेत्येकदेशेन पश्यन्ति । तत्र वाक्यावधारणविधेरिष्टतः प्रवृत्तेः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति द्रष्टव्यम् , शेषास्तिर्यग्-मनुष्याः सर्वतो देशतश्च पश्यन्तीति भावः । अथवा पूर्वार्धमन्यथा व्याख्यायते- नारक-देव-तीर्थङ्करा अवधेरबाह्या भवन्तीति कोऽर्थः?- अवधिज्ञानवन्त एवाऽमी भवन्ति, अवधिज्ञानं नियमेन तेषां भवतीत्यर्थः । तत्र किममी तेनाऽवधिना सर्वतः पश्यन्ति, देशतो वा ?, इति संशये सत्याह- 'पासंति' इत्यायुत्तरार्धम् । अस्य व्याख्या तथैव ॥ इति नियुक्तिगाथार्थः ॥ ७६६ ॥ अथ प्रथमं व्याख्यानं तावद् भाष्यकारोऽप्याह ओहिणाणक्खेत्तेभंतरगा होंति नारयाईया । सव्वदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो ॥ ७६७ ॥ उक्ताथैव ॥ ७६७ ॥ चालना-प्रत्यवस्थाने पाहअभिंतर त्ति भणिए भण्णइ पासंति सव्वओ कीस ? । ओयइ जमसंतयदिसो अंतो वि ठिओन सव्वत्तो ॥७६८॥ नववधेरबाह्या भवन्ति, इत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्त इति प्रथमपक्षे व्याख्यातम् । एवं चोक्ते सति 'पश्यन्ति सर्वतः' इति किमर्थ भण्यते ?; ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते, ते सर्वतः पश्यन्त्येव, इति गतार्थत्वादतिरिच्यत एवेदमिति पराभिप्रायः । अत्र मूरिराह- 'ओयईत्यादि' संतता निरन्तरालाः सर्वा दिग्-विदिग्लक्षणा दिशः प्रकाशविषयभूता यस्याऽवधेरसौ संततदिकोऽवधिरवाह्यावधिरित्यर्थः, न विद्यते संततदिक्कोऽवधिर्यस्याऽसावसंततदिकोऽवधिमान् बाह्यावधियुक्तःसाध्वादिरित्यर्थः । अयं यस्माद् 'न ओयइ त्ति' न पश्यति, कथम् ?, सर्वतः । कथंभूतः सन् ?, इत्याह- अवधिद्योतितक्षेत्रस्यान्तर्मध्येऽपि स्थितः, तस्मात् कर्तव्यं 'पासंति सबओ खलु' इति । इदमुक्तं भवति- 'फंडोही वाऽहवाऽसंबद्धो' इत्यनेन ग्रन्थेन यः प्राक् प्रतिपादितो १ अवधिज्ञानक्षेत्राभ्यन्तरका भवन्ति नारकादिकाः । सर्वदिकोऽवधिविषयस्तेषां दीपप्रभौपम्यः ॥ ७६७ ॥ २ क.ग. 'त्तम्भित' । ३ अभ्यन्तर इति भणिते भण्यते पश्यन्ति सर्वतः कस्मात् । पश्यति यदसंततदिकोऽन्तरपि स्थितो न सर्वतः ॥७६६॥ ४ क.ग. 'किंभू'। ५ गाथा ७६६।६ गाथा ७४९॥ ॥३७॥ SITESTATISTENSION PARIRADIOHINDotars Jan Education Intemat For Don Penny
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy