________________
विशेषा.
॥३७३|
| त्ववधिदर्शनम् , विभङ्गग्रहणेन तु विभङ्गज्ञानम् । अत एव ज्ञान-दर्शन-विभङ्गलक्षणं द्वारत्रयमिदं भवति । तत्र चावधिज्ञान-दर्शने, तथा विभङ्गज्ञानं, तस्य च संबन्धि यत् केषाश्चिन्मतेनाऽवधिदर्शनम् । ते च पृथक् स्वस्थाने ; परस्परापेक्षया परस्थाने चाऽवधि-विभङ्गयोज्ञान-दर्शने भवनपतिदेवेभ्य आरभ्य यावदुपरितनोवेयकविमानानि तावत् , जघन्याभ्यामारभ्य यावदुपरिमोवेयकविमानोचितावधि-विभङ्गोत्कृष्टताप्राप्तिः, तावत् क्षेत्रादिलक्षणं विषयमाश्रित्य तुल्ये भवतः। इदमुक्तं भवति-भवनपतिदेवेभ्य आरभ्य यावदुपरितनौवेयकविमानवासिनो देवास्तावद् ये ये जघन्यतुल्यस्थितयो देवास्तत्तत्संबन्धिनी जघन्ये अवधिविभङ्गज्ञान-दर्शने क्षेत्रादिरूपं विषयमाश्रित्य परस्परतस्तुल्ये भवतः ; मध्यमतुल्यस्थितीनां च मध्यमे ते तथैव तुल्ये भवतः; उत्कृष्टतुल्यस्थितीनां तूत्कृष्टे ते तथैव तुल्ये भवतः।
'परेण ओही असंखेज्जो त्ति' ग्रैवेयकविमानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिदर्शनरूपोऽवधिरेव भवति, न तु विभङ्गज्ञानम् , मिथ्यादृष्टेरेव तत्सद्भावात् , अनुत्तरसुरेषु च मिथ्यादृष्टेरभावात् । स चाऽनुत्तरसुरावधिः क्षेत्रतः कालतश्चाऽसंख्येयोऽसंख्यातविषयो भवति, द्रव्यभावस्त्वनन्तविषय इति । इह च तिर्यग्-मनुष्याणां तुल्यस्थितीनामपि क्षयोपशमतीव्र-मन्दतादिकारणवैचित्र्यात् क्षेत्र-कालविषयेऽप्यवधिविभङ्गज्ञान-दर्शनयोर्विचित्रता, न पुनस्तुल्यतैव, इतीह देवेष्वेव तयोरियं प्रतिपादितेति विभावनीयम् ।। इति नियुक्तिगाथार्थः ।। ७६३ ॥
अथ भाष्यम्सविसेसं सागारं तं नाणं, निव्विसेसमणगारं । तं दसणं ति ताइं ओहि-विभंगाण तुल्लाइं॥ ७६४ ॥
आरब्भ जहण्णाओ उवरिमगेवेजगावसाणाणं । परओऽवहिनाणं चिय न विभंगमसंखयं तं च ॥७६५॥ गतार्थे एव ॥ ७६४ ॥ ७६५ ॥
॥ गतं ज्ञान-दर्शन-विभङ्गद्वारत्रयम् ॥ अथ देशद्वाराभिधानायाह
'नेरइय-देव-तित्थंकरा य ओहिस्सबाहिरा होंति । पासंति सव्वओ खलु सेसा देसेण पासंति ॥७६६॥ १ क.ग. 'ये ज'। २ क.ग. 'स्तत्सं' । ३ सविशेष साकार तज्ज्ञान, निर्विशेषमनाकारम् । तद् दर्शनमिति ते अवधि-विभङ्गयोस्तुल्ये ॥ ७६४ ॥
आरभ्य जघन्यादुपरिमवेयकावसानानाम् । परतोऽवधिज्ञानमेव न विभङ्गोऽसंख्यकं तच ॥ ७६५ ॥ । मैरयिक-देव-तीर्थकरावावधेरवाया भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ ७६६॥
॥३७३॥
Jan Education interna
For Personal and Private Use Only
www.jainelibrary.org