Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 174
________________ विशेषा ० ॥३७२ ॥ Jain Education Internation तदेवाह - देव्वाओ असंखेज्जे संखेज्जे यावि पज्जत्रे लहइ । दो पज्जवे दुगुणिए लहइ य एगाओ दवाओ ||७६०|| इदं परमाण्वादि द्रव्यमेकं पश्यन्नवधिज्ञानी तत्पर्यायानेकगुणकालकादीन् उत्कृष्टतोऽसंख्येयान् विमध्यमतः संख्येयाँल्लभते प्रामोति, पश्यतीति तात्पर्यम् । जघन्यतस्तु द्वौ पर्यायौ द्विगुणितावेकस्माद् द्रव्याल्लभते - सामान्यतो वर्ण- गन्ध-रस- स्पर्शलक्षणांश्चतुरः पर्यायान् जघन्यत एकस्मिन् द्रव्ये पश्यति, न त्वेकगुणकालकादीन् बहूनित्यर्थः । एकद्रव्यगतानुत्कृष्टतोऽप्यनन्तपर्यायान् न पश्यति, किन्त्वसंख्येयानेव अनन्तेषु द्रव्येषु समुदितेष्वनन्तांस्तान् पश्यत्येव । इति नियुक्तिगाथार्थः । ७६० ।। अथ भाष्यम् एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे तस्स । उक्कोसमसंखिज्जे संखिज्जे पेच्छए कोइ ॥ ७६१ ॥ दो पज्जवे दुगुणिए सव्वजहण्णेण पेच्छए ते य । वण्णाई य चउरो नाणंते पेच्छइ कयाइ ॥ ७६२ ॥ गतार्थे एव ।। ७६१ ।। ७६२ ।। || अवसितमुत्पाद-प्रतिपातद्वारम् ॥ अथ ज्ञान-दर्शन-विभङ्गलक्षणद्वारत्रयं युगपदभिधित्सुराह सागारमणागारा ओहि विभंगा जहण्णया तुला । उवरिमवेज्जेसु परेण ओही असंखेज्जो ॥ ७६३ ॥ इहाऽवधिविचारे प्रस्तुत एतच्चिन्त्यते यदुत - किमिह ज्ञानम् ?, किंवा दर्शनम् १ को वा विभङ्गः १; किं वा परस्परतस्तुल्यम्, अधिकं च ? इति । तत्र यो वस्तुनो विशेषरूपग्राहकः स साकारः, स च ज्ञानमिष्टं सम्यग्दृष्टे :: मिथ्यादृष्टस्तु स एव विभङ्गज्ञानम् | यस्तु सामान्यरूपग्राहकः, अयमनाकारः, विशिष्टाकाराग्रहणात् स च दर्शनम् । तदिहगाथायां साकारग्रहणेनाऽवधिज्ञानं गृहीतम्, अनाकारग्रहणेन १ द्रव्यादसंख्येयान् संख्येयांश्चापि पर्यवल्लभते । द्वौ पर्यायौ द्विगुणिती लभते चैकस्माद् द्रव्यात् ॥ ७६० ॥ २ एकं द्रव्यं प्रेक्षमाणः स्कन्धमणुं वा स पर्यंवांस्तस्य । उत्कृष्टतोऽसंख्येयान् संख्येयान् प्रेक्षते कश्चित् ॥ ७६१ ॥ पर्यो द्विगुणित सर्वजघन्येन प्रेक्षते तांश्च । वर्णादींश्च चतुरो नाऽनन्तान् प्रेक्षते कदाचित् ॥ ७६२ ॥ ३ . छ. 'संखेजे' । ४ साकारा नाकाराववधि-विभङ्गौ जवन्यको तुल्यौ । उपरिममैवेयकेषु परेणाऽवधिरसंख्येयः ॥ ७६३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥३७२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202