Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 173
________________ विशेषा० ॥३७॥ कथम् ?, इत्याहलेद्धत्तलाभनासो जुज्जइ लाभो य तस्स समएणं । जइ तम्मि चेव नासो निच्चविणढे कुओ भवणं १ ॥७५७॥ सव्वुप्पायाभावा तदभावे य विगमो भवे कस्स ? । उप्पाय-व्वयाभावे काऽवढिई सव्वहा सुण्णं ॥७५८॥ लब्ध आत्मनो लाभः सत्ता येन तल्लब्धात्मलाभ प्राप्तस्वसत्ताक, तस्यैवेत्थंभूतस्य वस्तुनो नाशो युज्यते । न ह्यनासादितसत्ताकस्य खरविषाणस्य विनाश इति वक्तुं युज्यते । आत्मलाभश्च तस्य वस्तुनः समयेन भवति । यदि च यस्मिन्नेव समये ऋजुत्वधर्मेण ऋजुता समुत्पद्यते, तस्मिन्नेव समये तेनैव धर्मेण सा विनश्यतीत्यभ्युपगम्यते, तवं सर्वदैवोत्पत्त्यभावाद् नित्यविनष्टे कदाचिदप्यनवाप्तात्मलाभे वस्तुनि कुतो भवनं सत्तारूपम् ?- न कुतश्चिदित्यर्थः । ततः किम् ?, इत्याह- 'सव्वुप्पायेत्यादि' तत इत्थं सर्वदैव विनाशाघ्रा| तत्वाद् नित्यमेव च वस्तूनामुत्पादाभावः प्रसजति, तथाच सति कस्य विगमो विनाशो भवेत् ?; यदि हि किश्चिदुत्पन्नं स्यात् तदा तस्य कदाचिदपि विनाशो युज्येत, इतरथा तु कस्य विनाशः ? इति भावः । उत्पाद-व्ययाभावे च 'काऽवहिइ त्ति' काऽवस्थितिः ?, | तथाहि- यदुत्पाद-व्ययशून्यं तस्याऽवस्थितिरपि नास्ति, यथा खरविषाणस्य, तच्छ्न्यं च वस्तूक्तयुक्तर्भवतः समापतति, इति कुतस्तस्याऽवस्थितिः ? । एवं च सति सर्वथा शून्यं जगत्त्रयमिदं पामोति; तथाहि- उत्पाद-व्यय-ध्रौव्यरहितं वस्तु नास्त्येव, सत्वाद्ययोगात् , खरविषाणवदिति ॥ ७५७ ॥ ७५८ ॥ ___ अथाऽग्रेतननियुक्तिगाथासंबन्धं भाष्यकारः स्वत एव कुर्वन्नाह देव्वाईणं तिण्हं पुव्वं भणिओ परोप्परनिबंधो । इह दव्वस्स गुणेणं भण्णइ दव्वासिओ जं सो ॥७५९॥ अत्रैव पूर्व 'संखेज मणोदव्वे भागो लोगपलियस्स बोधव्वो' इत्यादिना द्रव्य-क्षेत्र-काललक्षणत्रयस्य परस्परनिबन्धोऽभिहितः । इह तूत्पाद-प्रतिपातद्वार एवं प्रसङ्गतो द्रव्यस्यैव गुणेन सहाऽयमुच्यते, न तु क्षेत्र-कालयोः, यतो द्रव्याश्रितोऽसौ, न तु क्षेत्र-कालाश्रितः।। इति गाथासप्तकार्थः ॥ ७५९ ।। PRADEEPISAMPCADARAP १ लब्धात्मलाभनाशो युज्यते लाभश्च तस्य समयेन । यदि तस्मिन्नेव नाशो नित्यविनष्टे कुतो भवनम् ॥ ७५७ ॥ सर्वोत्पादाभावात् तदभावे च विगमो भवेत् कस्य ? 1 उत्पाद-व्ययाभावे काऽवस्थितिः सर्वथा शून्यम् ॥ ७५८ ॥ २ क. ग. 'युज्यते इ'। ३ च्यादीनां त्रयाणां पूर्व भणितः परस्परनिवन्धः । इह गुब्यस्य गुणेन भण्यते द्रव्याश्रितो यत् सः ॥ ७५९॥ ४ गाथा ६६९ । ॥३७१॥ For Peso Private Use Only

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202