Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 171
________________ विशेषा ॥३६९॥ DONDHABBATEST कथम् ?, इत्याह दावानलो व्व कत्थइ लग्गइ विज्झाइ समयमन्नतो । तह कोइ ओहिदेसो से जायइ, नासए बिईओ।।७५१॥ यथा हि दावानलो यदैवैकतः शुष्ककुश-स्तम्बादौ लगति दीप्यते, तदैवाऽन्यतो दग्धशुष्कतृणादिके देशे विध्यायति निर्वाति तथाऽस्यापि बाह्यावधेः सदेशत्वात् कोऽपि देशो जायते- वृद्धिमासादयति, अन्यस्तु कोऽपि देशस्तस्मिन्नेव समये नश्यति हीयते । इति नेहोत्पाद-प्रतिपातौ युगपद् विरुध्यते ॥ इति गाथात्रयार्थः ॥ ७५१॥ अथैतावेवोत्पाद-प्रतिपातावभ्यन्तरावधौ निरूपयितुमाह अभितरलडीए तदुभयं नत्थि एगसमयेणं । उप्पा पडिवाओ वि एगयरो एगसमयेणं ॥ ७५२ ॥ यस्य नैरन्तर्येण सर्वतोभाविनोवधेस्तद्वान् जीवोऽभ्यन्तरे वर्तते, असावभ्यन्तरावधिरुक्तः, तल्लब्धौ तत्माप्तौ पुनस्तदुभयं प्रतिपातो-त्पादद्वयं युगपदेकसमयेन नास्ति । अयं ह्यभ्यन्तरावधिः प्रदीपप्रभापटलवदवधिमता जीवेन सह सर्वतो नैरन्तर्येण संबद्धोऽखण्डो देशरहित एकस्वरूपः, अत एवाऽयं संबद्धावधिर्देशावधिश्चोच्यते, तथा चोक्तं चूर्णी- " तत्थ अभिंतरलद्धी नाम जत्थ से ठियस्स ओहिन्नाणं समुप्पण्णं, ततो ठाणाओ आरम्भ सो ओहिन्नाणी निरंतरसंबद्धं संखेज वा असंखेज वा खित्तओ ओहिणा जाणइ पासइ, एस अभितरलद्धी" इति । अस्मिंश्चैवंविधे एकस्मिन्नखण्डेऽभ्यन्तरावधावेकस्मिन् समये प्रतिपातो-त्पादयोरेकतर एव भवति, न तु युगपदेवोभयं, सदेशत्वप्रसङ्गात् , एकस्यैवैकदा विरुद्धधर्माऽयोगाच; तथाहि-निरावरणे सर्वतः प्रसृते प्रदीपप्रभापटले एकस्मिन् समये संकोच-विस्तारयोरेकतर एव भवति, न त्वेकस्यां दिशि संकोचः, अन्यस्यां तु विस्तरः, इत्येवं युगपदेकसमये संकोच-विस्तरौ भवतः, एवमत्रापीति भावः । एतदेवाह- 'उप्पा पडिवाओ वि य' इत्यादि ॥ इति नियुक्तिगाथार्थः ।। ७५२ ।। अथ भाष्यम् PREPRESPAPERIO हाफमाज , दावानल इव कुत्रचिल्लगति विध्यायति समकमन्यतः । तथा कश्चिदवधिदेशस्तस्य जायते, नश्यति द्वितीयः ॥ ७५१ ॥२ घ. छ. 'बिइओ'। २ अभ्यन्तरलन्धी तदुभयं नास्त्येकसमयेन । उत्पादः प्रतिपातोऽप्येकतर एकसमयेन ॥ ७५२ ॥ ४ तत्राऽभ्यन्तरलब्धि म यत्र तस्य स्थितस्यावधिज्ञानं समुत्पन्नम् , ततः स्थानादारभ्य सोऽवधिज्ञानी निरन्तरसंबद्धं संख्येयं वाऽसंख्येयं वा क्षेत्र- तोऽवधिना जानाति पश्यति, एषाऽभ्यन्तरलब्धिः । ३६९।। ज Jan Education Internation For Personal and Private Use Only IPRMIww.jaineltrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202