________________
विशेषा०
॥३७॥
कथम् ?, इत्याहलेद्धत्तलाभनासो जुज्जइ लाभो य तस्स समएणं । जइ तम्मि चेव नासो निच्चविणढे कुओ भवणं १ ॥७५७॥
सव्वुप्पायाभावा तदभावे य विगमो भवे कस्स ? । उप्पाय-व्वयाभावे काऽवढिई सव्वहा सुण्णं ॥७५८॥
लब्ध आत्मनो लाभः सत्ता येन तल्लब्धात्मलाभ प्राप्तस्वसत्ताक, तस्यैवेत्थंभूतस्य वस्तुनो नाशो युज्यते । न ह्यनासादितसत्ताकस्य खरविषाणस्य विनाश इति वक्तुं युज्यते । आत्मलाभश्च तस्य वस्तुनः समयेन भवति । यदि च यस्मिन्नेव समये ऋजुत्वधर्मेण ऋजुता समुत्पद्यते, तस्मिन्नेव समये तेनैव धर्मेण सा विनश्यतीत्यभ्युपगम्यते, तवं सर्वदैवोत्पत्त्यभावाद् नित्यविनष्टे कदाचिदप्यनवाप्तात्मलाभे वस्तुनि कुतो भवनं सत्तारूपम् ?- न कुतश्चिदित्यर्थः । ततः किम् ?, इत्याह- 'सव्वुप्पायेत्यादि' तत इत्थं सर्वदैव विनाशाघ्रा| तत्वाद् नित्यमेव च वस्तूनामुत्पादाभावः प्रसजति, तथाच सति कस्य विगमो विनाशो भवेत् ?; यदि हि किश्चिदुत्पन्नं स्यात् तदा
तस्य कदाचिदपि विनाशो युज्येत, इतरथा तु कस्य विनाशः ? इति भावः । उत्पाद-व्ययाभावे च 'काऽवहिइ त्ति' काऽवस्थितिः ?, | तथाहि- यदुत्पाद-व्ययशून्यं तस्याऽवस्थितिरपि नास्ति, यथा खरविषाणस्य, तच्छ्न्यं च वस्तूक्तयुक्तर्भवतः समापतति, इति कुतस्तस्याऽवस्थितिः ? । एवं च सति सर्वथा शून्यं जगत्त्रयमिदं पामोति; तथाहि- उत्पाद-व्यय-ध्रौव्यरहितं वस्तु नास्त्येव, सत्वाद्ययोगात् , खरविषाणवदिति ॥ ७५७ ॥ ७५८ ॥ ___ अथाऽग्रेतननियुक्तिगाथासंबन्धं भाष्यकारः स्वत एव कुर्वन्नाह
देव्वाईणं तिण्हं पुव्वं भणिओ परोप्परनिबंधो । इह दव्वस्स गुणेणं भण्णइ दव्वासिओ जं सो ॥७५९॥
अत्रैव पूर्व 'संखेज मणोदव्वे भागो लोगपलियस्स बोधव्वो' इत्यादिना द्रव्य-क्षेत्र-काललक्षणत्रयस्य परस्परनिबन्धोऽभिहितः । इह तूत्पाद-प्रतिपातद्वार एवं प्रसङ्गतो द्रव्यस्यैव गुणेन सहाऽयमुच्यते, न तु क्षेत्र-कालयोः, यतो द्रव्याश्रितोऽसौ, न तु क्षेत्र-कालाश्रितः।। इति गाथासप्तकार्थः ॥ ७५९ ।।
PRADEEPISAMPCADARAP
१ लब्धात्मलाभनाशो युज्यते लाभश्च तस्य समयेन । यदि तस्मिन्नेव नाशो नित्यविनष्टे कुतो भवनम् ॥ ७५७ ॥
सर्वोत्पादाभावात् तदभावे च विगमो भवेत् कस्य ? 1 उत्पाद-व्ययाभावे काऽवस्थितिः सर्वथा शून्यम् ॥ ७५८ ॥ २ क. ग. 'युज्यते इ'। ३ च्यादीनां त्रयाणां पूर्व भणितः परस्परनिवन्धः । इह गुब्यस्य गुणेन भण्यते द्रव्याश्रितो यत् सः ॥ ७५९॥ ४ गाथा ६६९ ।
॥३७१॥
For Peso
Private Use Only