________________
विशेषा० ॥३७० ॥
Jain Educationa Internation
अभितरली सा जत्थ पईवप्पभ व्व सव्वत्तो । संबद्धमोहिनाणं अब्भंतरओऽवहीनाणी || ७५३ ॥ गतार्थैव, नवरं ‘संबद्धमित्यादि' अवधिज्ञानं जीवे संबद्धं सर्वतो भवति, अवधिज्ञानी त्ववधिज्ञानस्याऽभ्यन्तरतो भवतीति।।७५३।। बृहद्वृत्तिः। अथात्रोत्पाद-प्रतिपातविधिमाह
उप्पाओ विगमो वा दीवस्स व तस्स नोभयं समयं । न भवण-नासा समयं वत्थुस्स जमेगधम्मेणं ॥७५४॥ अभिहितार्थैव, नवरं यस्माद् वस्तुनो द्रव्यस्यैकेन धर्मेण स्वभावेन समकं युगपद् न नैव भवन- नाशौ उत्पाद व्ययौ कदाचनापि भवतः । न ह्यङ्गुलिद्रव्यं येनैवर्जुत्वधर्मेण ऋजु प्राञ्जलं भवति, तेनैव व्येतीति युज्यते, विरुद्धत्वात् : धर्मान्तरेण त्वेकस्यैककालमपि युज्येते उत्पाद - व्ययौ यथा तदेवाऽङ्गुलिद्रव्यं यस्मिन्नेव समये ऋजुतयोत्पद्यते, तस्मिन्नेव समये वक्रतया विनश्यति, द्रव्यतया त्ववस्थितमेवाssस्त इति ।। ७५४ ॥
एतदेवाह -
उपाय - व्यय धुवया समयं धम्मंतरेण न विरुद्धा । जह रिउ वक्कंगुलिता सुर-नर- जीवत्तणाई वा ॥ ७५५॥ उप्पज्जइ रिउयाए नासइ वक्कत्तणेण तस्समयं । न तम्मि चेव रिउयानासो वक्कत्तभवणं च ॥ ७५६ ॥ गतार्थे एव, नवरं तत्प्रत्ययः प्रत्येकमभिसंबध्यते, यथा ऋजुता, वक्रता, अङ्गुलिता चेति; एतत्रितयमपि युगपद् धर्मान्तरेण न विरुद्धम् | यदि वा यथा कोऽपि मृतः साधुर्यस्मिन्नेव समये देवत्वेनोत्पद्यते तस्मिन्नेव नरत्वेन विनश्यति, जीवत्वेन पुनरवतिष्ठते । एवमिहाsपि युगपद् धर्मान्तरेणोत्पादादयो न विरुध्यन्ते । न त्वेकेनैव धर्मेण युगपत् ते युज्यन्ते, तदेवाह - 'न उ तम्मीत्यादि' न पुनरेतद् युज्यते । किम् ?, इत्याह- 'रिउयेत्यादि' यस्मिन्नेव समयेऽङ्गुल्या ऋजुता जायते, तस्मिन्नेव समये तस्या ऋजुताया नाशो भवति, भाविवक्रत्वस्य भवनं चेति । एवं हि 'ऋजुता ऋजुत्वधर्मेणोत्पद्यते, तेनैव धर्मेण तस्मिन्नेवोत्पत्तिसमये सा विनश्यति' इत्यभ्युपगतं भवति, दूरविरुद्धं चैतत् ।। ७५५ ।। ७५६ ॥
१ अभ्यन्तरलब्धिः सा यत्र प्रदीपप्रभेव सर्वतः । संबद्धमवधिज्ञानमभ्यन्तरतोऽवधिज्ञानी ॥ ७५३
२ उत्पादो विगमो वा दीपस्येव तस्य नोभयं समकम् । न भवन-नाशौ समकं वस्तुनो यदेकधर्मेण ॥ ७५४ ॥
३ उत्पाद-व्यय-ध्रुवता समकं धर्मान्तरेण न विरुद्वा । यथा ऋजु वक्रा ऽङ्गुलिता सुर-नर-जीवत्वानि वा ॥ ७५५ ॥
उत्पद्यते ऋजुतया नश्यति वकत्वेन तत् समकम् । न तु तस्मिन्नेवर्जुतानाशो वक्रत्वभवनं च ॥ ७५६ ॥ ४ क. ख.ग. 'उ चैव तम्मि रि' ।
For Personal and Private Use Only
॥३७०॥
www.jainelibrary.org