Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 159
________________ GETASTE विशेषा वृहद्वत्तिः । ॥३५७॥ 29610वसर इहाऽद्धाशब्देनाऽवधिज्ञानावरणक्षयोपशमलाभरूपा लब्धिरभिप्रेता | सा च तत्राऽन्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिषूपयुक्तस्य, अनुपयुक्तस्य वा भवति । अत एतस्या अवधिज्ञानावरणक्षयोपशमलाभरूपाया लब्धेर्निरन्तरमवस्थानं वक्ष्यमाणभाष्ययुक्तथा षट्पष्टिः सागरोपमाणि कालेन कालमाश्रित्य भवति । तुशब्दस्य विशेषणार्थत्वाद् नरभवसंबन्धिना कालेनैतान्यधिकानि द्रष्टव्यानि । इदं चावधेव्यादिषूपयोगस्य लब्धेश्चान्तर्मुहूर्तादिकमवस्थानमुत्कृष्टं द्रष्टव्यम् , जघन्यतस्त्वेक एव समयो मन्तव्यः, तत्र नर-तिरश्वां समयादूर्ध्वमवधेः प्रतिपातादनुयोगाद् वाऽसौ विज्ञेयः, देव-नारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाभाद् विभङ्गज्ञानमवधिरूपतया परिणमति, ततः परं च मृतानां तदवधिज्ञानं प्रच्यवते, तेषामेष द्रष्टव्यः ।। इति नियुक्तिगाथाद्वयार्थः ॥ ७१८॥ अथ भाष्यम् आहारे उवओगे लडीए वा हेविज अवत्थाणं । आहारो से खित्तं तेत्तीसं सागरा तत्थ ॥ ७१९ ॥ विजयाईसूववाए जत्थोगाढो भवक्खओ जाव । खेत्तेऽवतिट्ठइ तहिं दव्वेसु य देहसयणेसु ॥ ७२० ॥ आधारो-पयोग-लब्धिविषयमवधेरवस्थानं भवेत् । तत्राधारः 'से' तस्याऽधेः क्षेत्रं मन्तव्यम् । 'तत्थ त्ति' तत्राधारभूते क्षेत्रे त्रयस्त्रिंशत् सागरोपमाण्यवधेः 'अवस्थानम्' इति शेषः। क पुनः क्षेत्रे एतावन्तं कालमवधिरवतिष्ठते , इत्याह-विजयादिष्वनुत्तरविमानेधूपपाताद् भवक्षयं यावत् । यत्र क्वापि 'खेने त्ति' शयनीयाक्रान्तक्षेत्रे देवोऽवगाढोऽवतिष्ठते, 'तहिं ति' तत्र क्षेत्रेऽस्यावधेस्त्रयस्त्रिंशत् सागरोपमाण्यवस्थानं द्रष्टव्यम् । क्षेत्रस्योपलक्षणत्वाद् द्रव्येषु च देहशयनीयेष्ववधेरेतावन्तं कालमवस्थानमवसेयमिति ॥७१९॥७२०॥ अथोपयोगतो द्रव्य-गुण-पर्यायेष्ववधेरवस्थानमाहदेव्वे भिन्नमुहुत्तं तत्थण्णत्थ व हविज्ज खेत्तम्मि । उवओगो न उ परओ सामत्थाभावओ तस्स ॥ ७२१ ॥ दव्वे तत्थेव गुणा संचरओ सत्त वट्ठ वा समया। अण्णे पुण अट्ठ गुणे भणंति तप्पजवे सत्त ॥७२२॥ TAGRA , आहार उपयोगे लब्धौ वा भवेदवस्थानम् । आहारस्तस्य क्षेत्रं प्रयस्त्रिंशत् सागरास्तत्र ॥ १९॥ २ घ. छ. 'हवन' । ३ क.ख.ग. 'खित्ते'। विजयाविषूपपाते यत्रावगाढो भवक्षयो यावत् । क्षेत्रेऽवतिष्ठते तत्र द्रव्येषु च देहशयनेषु ॥ २०॥ . द्रव्ये भिन्नमुहूर्त तनाऽन्यत्र वा भवेत् क्षेत्रे । उपयोगो न तु परतः सामर्थ्याभावतस्तस्य ॥ २१ ॥ मध्ये तव गुणाः संचरतः सप्लाऽष्ट वा समयाः । अन्ये पुनरए गुणान् भणन्ति तत्पर्यवान् सप्त ॥ ७२२ ॥ ॥३५७॥ Jan Education in For Personal and eve ry

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202