________________
GETASTE
विशेषा
वृहद्वत्तिः ।
॥३५७॥
29610वसर
इहाऽद्धाशब्देनाऽवधिज्ञानावरणक्षयोपशमलाभरूपा लब्धिरभिप्रेता | सा च तत्राऽन्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिषूपयुक्तस्य, अनुपयुक्तस्य वा भवति । अत एतस्या अवधिज्ञानावरणक्षयोपशमलाभरूपाया लब्धेर्निरन्तरमवस्थानं वक्ष्यमाणभाष्ययुक्तथा षट्पष्टिः सागरोपमाणि कालेन कालमाश्रित्य भवति । तुशब्दस्य विशेषणार्थत्वाद् नरभवसंबन्धिना कालेनैतान्यधिकानि द्रष्टव्यानि । इदं चावधेव्यादिषूपयोगस्य लब्धेश्चान्तर्मुहूर्तादिकमवस्थानमुत्कृष्टं द्रष्टव्यम् , जघन्यतस्त्वेक एव समयो मन्तव्यः, तत्र नर-तिरश्वां समयादूर्ध्वमवधेः प्रतिपातादनुयोगाद् वाऽसौ विज्ञेयः, देव-नारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाभाद् विभङ्गज्ञानमवधिरूपतया परिणमति, ततः परं च मृतानां तदवधिज्ञानं प्रच्यवते, तेषामेष द्रष्टव्यः ।। इति नियुक्तिगाथाद्वयार्थः ॥ ७१८॥
अथ भाष्यम्
आहारे उवओगे लडीए वा हेविज अवत्थाणं । आहारो से खित्तं तेत्तीसं सागरा तत्थ ॥ ७१९ ॥ विजयाईसूववाए जत्थोगाढो भवक्खओ जाव । खेत्तेऽवतिट्ठइ तहिं दव्वेसु य देहसयणेसु ॥ ७२० ॥
आधारो-पयोग-लब्धिविषयमवधेरवस्थानं भवेत् । तत्राधारः 'से' तस्याऽधेः क्षेत्रं मन्तव्यम् । 'तत्थ त्ति' तत्राधारभूते क्षेत्रे त्रयस्त्रिंशत् सागरोपमाण्यवधेः 'अवस्थानम्' इति शेषः। क पुनः क्षेत्रे एतावन्तं कालमवधिरवतिष्ठते , इत्याह-विजयादिष्वनुत्तरविमानेधूपपाताद् भवक्षयं यावत् । यत्र क्वापि 'खेने त्ति' शयनीयाक्रान्तक्षेत्रे देवोऽवगाढोऽवतिष्ठते, 'तहिं ति' तत्र क्षेत्रेऽस्यावधेस्त्रयस्त्रिंशत् सागरोपमाण्यवस्थानं द्रष्टव्यम् । क्षेत्रस्योपलक्षणत्वाद् द्रव्येषु च देहशयनीयेष्ववधेरेतावन्तं कालमवस्थानमवसेयमिति ॥७१९॥७२०॥
अथोपयोगतो द्रव्य-गुण-पर्यायेष्ववधेरवस्थानमाहदेव्वे भिन्नमुहुत्तं तत्थण्णत्थ व हविज्ज खेत्तम्मि । उवओगो न उ परओ सामत्थाभावओ तस्स ॥ ७२१ ॥ दव्वे तत्थेव गुणा संचरओ सत्त वट्ठ वा समया। अण्णे पुण अट्ठ गुणे भणंति तप्पजवे सत्त ॥७२२॥
TAGRA
, आहार उपयोगे लब्धौ वा भवेदवस्थानम् । आहारस्तस्य क्षेत्रं प्रयस्त्रिंशत् सागरास्तत्र ॥ १९॥ २ घ. छ. 'हवन' । ३ क.ख.ग. 'खित्ते'।
विजयाविषूपपाते यत्रावगाढो भवक्षयो यावत् । क्षेत्रेऽवतिष्ठते तत्र द्रव्येषु च देहशयनेषु ॥ २०॥ . द्रव्ये भिन्नमुहूर्त तनाऽन्यत्र वा भवेत् क्षेत्रे । उपयोगो न तु परतः सामर्थ्याभावतस्तस्य ॥ २१ ॥
मध्ये तव गुणाः संचरतः सप्लाऽष्ट वा समयाः । अन्ये पुनरए गुणान् भणन्ति तत्पर्यवान् सप्त ॥ ७२२ ॥
॥३५७॥
Jan Education
in
For Personal and eve
ry