SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ विशेषा. वृहदत्तिः । ॥३५६॥ RPREE अथ भाष्यम् अणुगामिओ अणुगच्छइ गच्छंतं, लोयणं जहा पुरिसं । इयरो य नाणुगच्छइ ठियपईवोव्व गच्छंतं ॥७१५॥ उभयसहावो मीसो देसो जस्साणुजाइ नो अन्नो । कासइ गयस्स गच्छइ एग उवयम्मि जहच्छि ॥७१६॥ गतार्थे एव ।। ७१५ ॥ ७१६ ॥ ॥उक्तमानुगामुकद्वारम् ॥ अथावस्थितद्वारमुच्यते- अवस्थित चावधेराधारभूतक्षेत्रतः, उपयोगतो लब्धितश्च चिन्तनीयम् । तत्र क्षेत्रत उपयोगतश्चाह खित्तस्स अवठ्ठाणं तेत्तीसं सागरा उ कालेणं । दव्वे भिन्नमुहुत्तो पज्जवलंभे य सत्तट्ठ ॥ ७१७ ॥ अवधेराधारपर्यायेण क्षेत्रस्यावस्थानं त्रयस्त्रिंशदेव सागरोपमाणि कालेन कालमाश्रित्य भवति । इदमुक्तं भवति- अनुत्तरसुरा यत्र क्षेत्रे जन्मसमयेऽवगाढास्तत्रैवाऽऽभवक्षयमवतिष्ठन्ते, अतस्तत्संबन्धिनोऽवधेरेकत्र क्षेत्रे त्रयस्त्रिंशत्सागरोपमलक्षणकालमवस्थानं संपद्यते। उपयोगतस्त्ववधेः सुर-नारक-पुद्गलादिके द्रव्ये द्रव्यविषयमुपयोगमाश्रित्य तत्राऽन्यत्र वा क्षेत्रे भिन्नमुहूर्तोऽन्तर्मुहूर्तमेवाऽवस्थानं, न परतः, सामर्थ्याभावादिति । तत्रैव द्रव्ये ये पर्यवाः पर्याया धर्मास्तल्लाभे पर्यायान् पर्यायान्तरं च संचरतोऽवधेस्तदुपयोगे सप्ताष्टौ वा समयानऽवस्थानं, न परतः। अन्ये तु व्याचक्षते- पर्यवा द्विविधाः- गुणाः, पर्यायाश्च । तत्र सहवर्तिनो गुणाः शुक्लादयः, क्रमवर्तिनस्तु पर्याया नव-पुराणादयः । तत्र गुणेष्वष्टौ समयानवध्युपयोगावस्थानं, पर्यायेषु सप्त समयानिति, स्थूलं हि द्रव्यं, तेन तत्रान्तर्मुहूर्त तदुपयोगस्थितिः, गुणास्तु ततः मूक्ष्मास्तेनैतेष्वष्टौ समयान् ; गुणेभ्योऽपि पर्यायाः सूक्ष्मा इति तेषु सप्त समयानिति भावः ।।७१७॥ अथ लब्धितोऽवध्यवस्थानमाहअद्धाए अवठ्ठाणं छावट्ठि सागरा उ कालेणं । उक्कोसगं तु एवं एक्को समओ जहन्नेणं ॥ ७१८ ॥ रहकर १ अनुगामुकोऽनुगच्छति गच्छन्त, लोचनं यथा पुरुषम् । इतरश्च नानुगच्छति स्थितप्रदीप इष गच्छन्तम् ॥ १५ ॥ उभयस्वभावो मिश्रो देशो यस्याऽनुयाति नो अन्यः । कस्यचिद् गतस्य गच्छति एकमुपहते यथाऽक्षि ॥ १६ ॥ २ क्षेत्रस्यावस्थानं प्रयस्त्रिंशत् सागरास्तु कालेन । द्रव्ये भिन्नमुहूर्तः पर्यवलाभे च सप्ताऽष्ट || 010॥ ३ अायामवस्थान द्वाषष्टिः सागरास्तु कालेन । उत्कृष्टकं त्वेतदेकः समयो जघन्येन ॥ 014॥ ॥३५६॥ साहस TIPS
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy