________________
बृहद्वृत्तिः ।
मवधिः सर्वकालं नियतोऽवस्थित एव भवति, न त्वन्याकारतया परिणमति । तिर्यग्-मनुष्याणां तु येनाकारेण प्रथममुत्पन्नोऽवधिः, विशेषा०
RBI केषांचित् तेनैवाकारेण सर्वकालं भवतिः केषांचित् त्वन्याकारेण परिणमतीति ॥ ७०८ ॥ ७०९ ॥ ७१०॥७११॥
___अथ यदुक्तम्- "तिरिय-मणुएसु ओही' इत्यादि, तद् व्याचिख्यासुराह॥३५५।।
नाणागारो तिरिय-मणुएसु मच्छा सयंभूरमणे व्व । तत्थ वलयं निसिद्ध तस्सिह पुण तं पि होज्जाहि ॥७१२॥
तत्र स्वयंभूरमणे तस्य मत्स्यस्याऽऽकारविषये वलयं निषिद्धम् , इह पुनस्तिर्यग्-मनुष्येषु, 'तस्यावधेः' इत्येतदप्यावृत्त्या योज्यते, तदपि वलयाकारमाश्रित्य भवेत् । शेषं सुगममिति ॥ ७१२ ।। तदेवं संस्थाने प्रोक्तेऽपि 'कयापि दिशा बहुरवधिः, कयापि तु स्तोकः' इति न ज्ञायते । अत एतद् भवनपत्यादीनां दर्शयन्नाह
भवणवइ-वंतराणं उड्ढे बहुगो अहो य सेसाणं । नारग-जोइसियाणं तिरियं ओरालिओ चित्तो ॥ ७१३ ॥
नारक-ज्योतिष्काणामवधिस्तिर्यग् बहुः, तिर्यग्-मनुष्याणां तु संबन्धी अवधिरौदारिकावधिरुच्यते । अयं पुनश्चित्रो नानाप्रकारः- केषांचिदूर्ध्वं बहुः, अन्येषां त्वधः, अपरेषां तिर्यक् ; केषांचित् स्वल्प इति भावः । शेषं सुगमम् । इति गाथासप्तकार्थः।।७१३॥
. ॥ इत्यवसितं संस्थानद्वारमिति ॥ अथ सप्रतिपक्षमानुगामुकद्वारमाह
अणुगामिओ य ओही नेरइयाणं तहेव देवाणं । अणुगामी अणणुगामी मीसो य मणुस्स-तेरिच्छे।।७१४॥
अनुगमनशील आनुगामुकः, यः समुत्पन्नोऽवधिः स्वस्वामिनं देशान्तरमभिवजन्तमनुगच्छति, लोचनवत् , असावानुगामुक इत्यर्थः । ईदृश एवावधिर्भवति, केषाम् , इत्याह-नारकाणां तथा देवानां चेति । तथा, आनुगामुक उक्तस्वरूपः, अनानुगामुकस्त्ववस्थितशृङ्खलादिनियन्त्रितप्रदीपवद् विपरीतः। यस्य तूत्पन्नस्यावधेर्देशो व्रजति स्वामिना सहाऽन्यत्र, देशस्तु प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न व्रजति, असौ मिश्र उच्यते । एष त्रिविधोऽप्यवधिर्मनुष्येषु तिर्यक्षु च भवति ॥ इति नियुक्तिगाथार्थः ॥ ७१४ ॥ १ गाथा ७०६। २ नानाकारस्तिर्यग्-मनुजेषु मत्स्याः स्वयंभूरमण इव । तत्र वलयं निषिदं तस्येह पुनस्तदपि भवेत् ॥ १२॥
३ भवनपति-व्यन्तराणामूर्व बहुकोऽधश्च शेषाणाम् । नारक-ज्योतिष्काणां तिर्यगीदारिकश्चित्रः ॥ १३॥ ४ अनुगामुकवावधिनैरयिकाणां तथैव देवानाम् । अनुगामी, अननुगामी मिश्रश्च मनुष्य-तिर्यक्षु ॥ १४ ॥
॥३५५||
Jan Edu
www.jainelibrary.org
For Personal and Private Use Only
Internatio