Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहदत्तिः ।
'किह नोवओगबहुया, भण्णइ न विसेसओस सामण्णो । तग्गयविसेसविमुहो खंधावारोवओगो व्व ॥७४२॥ विशेषा. नन्वेवं सत्यवधिमतः कथं नोपयोगबहुता, अनेकैः फडकैरुपयुज्यमानत्वात् । अत्रोक्तमेवोत्तरम्- एकस्मिन् समये जीवस्यैक
११ जावस्यक | एवोपयोगो भवति, तत्स्वाभाव्यात् , नयनद्वयोपयोगवत् । तस्मादनेकफड्डकैरुपयुज्यमानस्याऽपि न तस्योपयोगबहुता । अथवा, भण्यते
वोत्तरम्- अनेकवस्तुविशेषोपयोगे ह्येतत् स्यात् , यथा- एते हस्तिनः, दक्षिणतस्त्वमी वाजिनः, वामतस्तु रथाः, पुरतः पदातय इत्यादि । न चेहानेकवस्तुविशेषोपयोगोऽस्ति । किं तर्हि ?, सामान्योपयोग एव, ग्राह्यवस्तुगतविशेषवैमुख्यात् , नयनद्वयेन स्कन्धावारोपयोगवत् , अयं चैक एवोपयोगः, इति न तद्बहुतेति ।। ७४२ ॥ 'फेड्डा य आणुगामी' इत्यादि विवृण्वन्नाह
अणुगामि-नियय-सुद्धाई सेयराइं च मीसयाइं च । एक्केकसो विभिन्नाइं फड्डयाइं विचित्ताई॥ ७४३ । इह तावत् फडकानि त्रिधा भवन्ति, तद्यथा- अनुगामीनि, नियतानि- अप्रतिपातीन्यर्थः, शुद्धानि- तीव्राणीत्यर्थः । 'सेयराई च त्ति' सेतराणि चैतानि भवन्ति, तद्यथा- अनुगामिभ्य इतराण्यननुगामीनि, अप्रतिपातिभ्य इतराणि प्रतिपातीनि, तीब्रेभ्य इतराणि
मन्दानि । 'मीसयाई च त्ति' मिश्राणि चैतानि अनुगाम्यादीनि भवन्ति, तद्यथा- अनुगाम्यननुगामीनि, प्रतिपात्यप्रतिपातीनि, तीव्रमन्दाFOR नीति । 'एकेकसो विभिन्नाई ति' एतानि चानुगाम्यादीन्येकैकशो विभिन्नानि भवन्ति, तद्यथा- अनुगामीनि प्रतिपात्य-अतिपातिमि
श्रभेदात् त्रिधा, एवमननुगामीन्यपि त्रिधा, अनुगाम्यननुगामीन्यप्येवं त्रिधा । एवं पुनरप्यनुगाम्यादीनि फडकानि तीव्र-मन्द-मध्यभेदात् प्रत्येकं त्रिधा वक्तव्यानि, तद्यथा- अनुगामीनि तीव्र-मन्द-मध्यमानि, एवमननुगामीन्यपि, एवमनुगाम्यननुगामीन्यपीति । 'विचित्ताई ति एतानि च जघन्य-मध्यमादिभेदाद् विचित्राणि नानाप्रकाराणीति ।। ७४३ ।।
अत्र प्रेरकः पाह'निययाणुगामियाणं को भेओ को व तव्विवक्खाणं ? नियओऽणुजाइ नियमा नियओऽनियओव अणुगामी॥७४४॥
Blaire
, कथं नोपयोगबहुता, भण्यते न विशेषतः स सामान्यः । तद्गतविशेषविमुखः स्कन्धावारोपयोग इव ॥ ४२ ॥ २ क.ग. 'विषयोप' । ३ गाथा ५३९ । ४ अनुगामि नियत-शुद्धानि सेतराणि च मिश्चकाणि च । एकैकशो विभिन्नानि फडकानि विचित्राणि ॥ ७४३ ॥ ५ नियतानुगामिकयोः को भेदः को वा तद्विपक्षयोः । नियतोऽनुयाति नियमाद् नियतोऽनियतोवाऽनुगामी ॥ ७४४ ॥
॥३६५॥
For Personal and Private Use Only
www.janelibrary.org
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202