Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 136
________________ अयं पुनरचित्तमहास्कन्धोऽचित्तमहास्कन्धान्तरेण सहाऽवगाहना-स्थितिभ्यां तुल्य एव । अतो ज्ञायते- एतस्मादपर एव कचित् विशेषा. ON ते प्रज्ञापनोक्ता उत्कृष्टप्रदेशिकाः स्कन्धा इति । किञ्च, 'अट्ठप्फासो य जओ भणिओ त्ति' 'उक्कोसपएसो' इत्यनन्तरगाथागतं संबध्यते । ततश्चाष्टस्पर्शस्य यतः प्रज्ञापनायां भणित उत्कृष्टप्रदेशिकः स्कन्धः । एष पुनरचित्तमहास्कन्धो यस्माच्चतुःस्पर्श इष्यते । तस्मा॥३३४॥ दनयैवोत्कृष्टपदेशिकस्कन्धानां भेदसिद्धया पूर्वोक्तवर्गणामिश्राचित्तमहास्कन्धेभ्योऽन्येऽपि कचिदसंगृहीताः पुद्गलविशेषा अद्यापि सन्तीति श्रद्धेयम् , न पुनरेतावता सर्वोऽपि पुद्गलास्तिकायः संगृहीत इति भावः । तदेवमुक्ता द्रव्यवर्गणाः, 'अह दव्ववग्गणाणं कमो' एतत्पर्यन्ता च व्याख्याता नियुक्तिगाथा ।। ६४५॥ ६४६ ॥ अथ "विवज्जासओ खेत्ते' एतद्वयाचिख्यासुः क्षेत्रादिवर्गणास्वरूपमाहऐगपएसोगाढाण वग्गणेगा पएसवुड्ढीए । संखेजोगाढाणं संखेज्जा वग्गणा तत्तो ॥ ६४७॥ तत्तो संखाईयाऽसंखाइयप्पएसमाणाणं । गंतुमसंखेजाओ जोग्गाओ कम्मुणो भणिया ॥ ६४८॥ तत्तो संखाईया तस्सेव पुणो हवंति जोग्गाओ। माणसदव्वाईण वि एवं तिविगप्पमेकेकं ॥ ६४९ ॥ विपर्यासतो विपर्यासेन पश्चान्मुखः क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, न तु द्रव्यवर्गणावदिति भावः । इदमुक्तं भवति- परमाशूनां घणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां चैकाकाशप्रदेशावगाहिनां सर्वेषामप्येका वर्गणा, घणुकाद्यनन्ताणुकपर्यन्तस्कन्धानामेव द्विपदेशावगाहिनां द्वितीया वर्गणा, व्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानामेव त्रिप्रदेशावगाहिनां तृतीया वर्गणा; एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां स्कन्धानां संख्येया वर्गणाः, ततोऽसंख्येयप्रदेशावगाहिनामपि स्कन्धानां प्रदेशवृद्ध्या असंख्या वर्गणा गत्वाऽतिलळ्यासंख्यप्रदेशावगाहिस्कन्धानामेकैकाकाशप्रदेशवृद्ध्या वर्धमानाः कर्मणो ग्रहणयोग्या असंख्येया वर्गणास्तीर्थकरैभणिताः । ततोऽनन्तरमल्पपरमाणुनिष्पन्नत्वाद् बादरपरिणामत्वेन बह्वाकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणयोग्या एकैकाशप्रदेशवृद्ध्या वर्धमाना असंख्येया वर्गणा भवन्ति । ततश्चैवमेकैकाकाशप्रदेशावगाहवृद्ध्या वर्धमाना मनसोऽप्यसंख्येया अग्रहणवर्गणाः, पुनरेतावत्य एवं १ गाथा ६३१ । २ एकप्रदेशावगाढानां वर्गणका प्रदेशवृक्या । संख्येयावगाढाना संख्येया वर्गणास्ततः ॥ ६४७ ॥ ततः संख्यातीता-संख्येयप्रदेशमानानाम् । गत्वाऽसंख्येया योग्याः कर्मणो भणिताः ॥ ६॥ ततः संख्यातीतास्तरुपैव पुनर्भवन्ति योग्याः । मानसद्व्यादीनामप्येवं निविकल्पमेकैकम् ॥ ६१९॥ ॥३३४॥ मसतरामास्टर Jan Education Internat For Personal and Private Use Only नसलwww.jaineltrary.ary

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202